SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ४१ ॥ Jain Education Int स्वर इत्यकविंशः २१ । ' अद्धमागहीए 'ति प्राकृतादीनां षष्पां भाषाविशेषाणां मध्ये या मागधी नाम भाषा 'रसोर्लशौ मागध्या ' मित्यादिलक्षणवती सा श्रसमाश्रितस्वकीय समग्रलक्षणार्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंश: २२ । ' भासिजमाणी 'ति भगवताऽभिधीयमाना ' चारियमण।रियाणं ' आर्यानार्यदेशोत्पन्नानां द्विपदा - मनुष्याश्चतुष्पदा - गवादयः, मृगा - आटव्याः पशवो - ग्राम्याः, पक्षिणः - प्रतीताः, सरीसृपा - उरः परिसर्पा भुजपरिसर्पाश्चेति, तेषां किमात्मन आत्मन-आत्मीयया आत्मीययेत्यर्थः भाषातया - भाषाभावेन परिणमतीति संबन्ध:, किंभूतासौ भाषा ? इत्याहृ-हितं-अभ्युदयं शिवं-मोक्षं सुखं - श्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदा इति त्रयोविंशः २३ । 'पुर्बबद्भवेरा' त्ति । पूर्वं भवान्तरे अनादिकाले वा जातिप्रत्ययं बद्धं निकाचितं वैरं अमित्रभावो यैस्ते तथा, तेऽपि च आसतामन्ये देवावैमानिकाः सुराः नागाश्च भवनपतिविशेषाः सुवर्णाः - शोभन वर्णोपेतत्वात् जोतिष्का यक्षराक्षसकिंनराः किंपुरुषा व्यन्तरविशेषाः गरुडा-गरुडलांच्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः गन्धर्वा महोरगाव - व्यन्तरविशेषाः एव एतेषां द्वन्द्वः, 'पसंतचित्तमाणसा ' प्रशान्तानि - शमं गतानि चित्राणि रागद्वेषाद्यनेकविधविकारयुक्ततया विविधानि मानसानि अन्तःकरणानि येषां ते प्रशान्तचित्तमानसा धर्मं निशामयन्तीति चतुर्विंश: २४ | बृहद्वाचनायामिदमन्यदतिशयद्वयमभिधीयते - यदुत अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगवन्तमिति गम्यते इति पंचविंशः २५ । आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्तीति षड्विंशः २६ । 'जओ जओ वि य णं ' इति यत्र यत्रापि च देशे ' तत्र तत्र ' ति तत्र तत्रापि च पंचविंशतौ योजनेषु ईतिः-धान्याद्युपद्रवकारी प्रचुरमूषिकादिप्राणिगण इति सप्तविंशः २७ । मारि :- जनमरक इत्यष्टाविंशः २८| For Private & Personal Use Only रत्नाकरः । ॥ ४१ ॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy