________________
कादशः ११ । ' ईसि 'त्ति ईषत्-अल्पं 'पिट्ठो' त्ति पृष्ठतः पश्चाद्भागे 'मउडट्ठाणमित्ति मस्तकप्रदेशे तेजोमण्डल-प्रभापटलमिति द्वादशः १२ । बहुसमरमणीयो भूमिभाग इति त्रयोदशः १३ । 'अहोसिर 'त्ति अधोमुखाः कण्टका भवन्तीति चतुर्दशः १४ । ऋतवोऽविपरीताः कथमित्याह-सुखस्पर्शा भवन्तीति पञ्चदशः १५ । योजनं यावत्क्षेत्रशुद्धिः संवर्तकवातेनेति षोडशः १६ । 'जुत्तफुसिएण 'त्ति उचितबिन्दुनिपातेन 'निहयरयरेणुयंति वातात्खातमाकाशवर्तिरजो भूवर्ती तु रेणुरिति गन्धोदकवर्षाभिधानः सप्तदशः १७ । जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्द्धमुखेन दशार्द्धवर्णेन-पञ्चवर्णेन जानुनोरुत्सेधस्य-उच्चत्वस्य यत्प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रपुष्पोपचार:-पुष्पप्रकर इत्यष्टादशः १८ । तथा 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघतगंधुद्भुयाभिरामे भवई' त्ति कालागुरुश्च-गन्धद्रव्यविशेषः प्रवरकुदुरुकं च-चीडाभिधानं गन्धद्रव्यमिति तुरुष्कं च-शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वः तत एतल्लक्षणो यो धूपस्तस्य मघमघायमानो-बहुलसौरभ्यो यो गन्ध उद्धृत-उद्भूतस्तेनाभिराम-अतिरमणीयं यत्तत्तथा स्थान-निषदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १६ । 'उभो पासिं च णं अरहताणं भगवंताणं दुवे जक्खा कडगतुडियथंभियभुया चामरुक्खेवं करेंति 'त्ति कटकानि-प्रकोष्टाभरणविशेषास्त्रुटितानि-बाह्याभरणविशेषास्तैरतिवहुत्वेन स्तंभिताविव स्तंभितौ भुजौ ययोस्तौ तथा यक्षौ-देवाविति विंशतितमः २०। बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाभिधीयते अतस्तस्यां पूर्वेष्टादशैव, अमनोज्ञानां शब्दादीनामपकर्षो अभाव इत्येकोनविंशतितमः २१ । मनोज्ञानां प्रादुर्भाव इति विंशतितमः २० । 'पच्चाहरओ' त्ति प्रत्याहरतो-व्याकुर्वतो भगवतः ' हिययगमणीओ 'त्ति हृदयङ्गमः 'जोयणनीहारी सरो 'त्ति योजनातिक्रमी
in d
er
For Private
Personal Use Only
www.jainelibrary.org