________________
विचार
॥४०॥
अथ चतुस्त्रिंशत्स्थानके किमपि लिख्यते- 'बुद्धाइसेसा' इति बुद्धानां-तीर्थकृतामतिशेषा-अतिशया बुद्धवातिशयाः । रत्नाकरः। अवस्थितं-अवृद्धिस्वभावम् केशाश्च-शिरोजाः श्मश्रूणि च-कूर्चरोमाणि रोमाणि च-शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्यकः १ । निरामया-नीरोगा, निरुपलेपा-निर्मला गात्रयष्टिः-तनुलतेति द्वितीयः२ । गोक्षीरपाण्डुरं मांसशोणितमिति | तृतीयः ३ । तथा पद्मं च-कमलं गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढम् उत्पलं च-नीलोत्पलमुत्पलकुष्ठं वा गन्धद्रव्यविशेषस्तोगन्धः स यत्रास्ति तत्तथोच्छ्वासनिश्वासमिति चतुर्थः ४ । प्रच्छन्नमाहारनीहारं-अभ्यवहरणं मूत्रपुरीपोत्सर्गों प्रच्छनत्वमेव स्फुटतरमाह-अदृश्यं मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसेति पञ्चमः ५। एतच्च द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययम् । तथा-'पागासगयं' ति आकाशगतं-व्योमवर्ति आकाशकं वा प्रकाशकमित्यर्थः, चक्रं-धर्मचक्रमिति षष्ठः६ एवं आकाशगं छत्रं छत्रत्रयमित्यर्थः इति सप्तमः ७ । आकाशके-प्रकाशके श्वेतवरचामरे प्रकीर्णके इत्यर्थः इत्यष्टमः = । 'आगासफालियामय' ति आकाशमिव यदत्यन्तमच्छं स्फाटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः ।। 'आगासगओ' त्ति आकाशगतोऽत्यर्थं तुङ्ग इत्यर्थः 'कुडभित्ति लघुपताकाः संभाव्यन्ते तत्सहस्रैः परिमण्डितश्चासावभिरामश्च -अतिरमणीयः इति विग्रहः 'इंदज्झओं' ति शेषध्वजापेक्षयातिमहत्वादिन्द्रश्चासौ ध्वजश्च इन्द्रध्वजः इति विग्रहः इन्द्रत्वसूचको ध्वज इति वा 'पुरो' त्ति जिनस्याग्रतो गच्छतीति दशमः १० । 'चिटुंति वा निसीयंति व चितिष्ठन्ति-गतिनिवृत्त्या निषीदन्तिउपविशन्ति 'तक्खणा चेव त्ति तत्क्षणमेवाकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्तं, सचासौ पुष्पपल्लवसमाकुलश्च इतिविग्रहः पल्लवा-अंकुराः सच्छत्रः सध्वजः सघण्टः सपताकोऽशोकवरपादप इत्ये- ॥४ ॥
Jain Education Inter
For Private & Personel Use Only
INTw.jainelibrary.org