________________
विचार
रत्नाकरः।
विनमत जिनमतमभिमतफलवितरणसततसजममितनयम् । मुखरपरवादिमण्डलनिष्ठुरमुखमूकतामन्त्रम् ॥१॥
____अथ क्रमायाताः श्रीसमवायाङ्गविचारा लिख्यन्तेकेचिच्चासद्वादिनः श्रीजिनप्रतिमापूजकान् विगायन्ति--अहो एते पूजाधर्मोपदेशेन जलपुष्पादिजन्तुहिंसका इत्यादि । तच सकर्णरपकर्णनीयम् । यत एतादृशं किमपि कायिक वाचिकं धर्मानुष्ठानं नास्ति, यत्र जीवविराधनाऽभावः । 'जावं च ण एयइ वेयइ ' इत्यादिवचनात् , तथा च किमपि धर्मानुष्ठानं नानुष्ठयं स्यात् । विराधना चेय कूपखननन्यायेन प्रतिमापूजनोद्भूतसुकृतप्राग्भारप्लावितेति न दुष्टा, यतो ज्ञानत्रयबन्धुरैरतिचतुरैर्निरैरपि मृदुशीतलजलदेन रजःशमने पृथिव्यादीनां, महेन्द्रध्वजेन वायोः, जलजस्थलजकुसुमवृष्टया वनस्पतरित्यादि विराधनायाः स्वीकृतत्वात् । यतः श्रीत्रिजगद्गुरोः सहजातिशयाश्चत्वारः, एकादश च कैवल्योद्भुताः, एकोनविंशतिश्च सुरकृताः,सर्वे चतुस्त्रिंशत् सिद्धान्ते उक्ताः तथा हि
"चोत्तीसं बुद्धाइसेसा पन्नता । तं जहा-अवदिए केसमंसुरोमणहे १, निरामया निरुवलेवा य गायलट्ठी २, गोखीरपंडुरे मंससोणिए ३, पउमुप्पलगंधिए उस्सासणिस्सासे ४, पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा ५, आगासगयं चकं ६, आगासगयं छत्तं ७, मागासगयाओ सेतवरचामराओ८,श्रागासफालियामयं सपायपीठं सीहासणं, आगासगयो कुडभीसहसपरिमंडियाभिरामो इंदज्झयो पुरओ गच्छह १०, जत्थ जत्थ वि य णं अरहता भगवंता चिट्ठति वा णिसा
॥३६॥
Jan Education International
For Private Personal Use Only
www.jainelibrary.org