________________
दिति । उक्तं च-राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च । यद्दीयते भयाथै तद्भयदानं बुधैर्जेयम् ॥१॥३, 'कालुणिएइ य'त्ति कारुण्य-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स जन्मान्तरे सुखितो भवत्विति वासनातोऽयस्य वा यदानं तत्कारुण्यदानं, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति ४, लज्जया-हिया दानं यत्तल्लज्जादानमुच्यते । उक्तं च-"अभ्यर्थितः परेण तु, यद्दानं जनसमूहमध्यगतः। परचित्तरक्षणार्थ, लज्जायास्तद्भवेद्दानम् ॥१॥"५, इति, 'गारवणं च' ति गौरवेण-गर्वेण यद्दीयते तद्गौरवदानमिति । उक्तं च-" नटनतमुष्टिकेभ्यो, दानं संबन्धिबन्धुमित्रेभ्यः । यद्दीयतेयशोऽर्थ, गर्वेण तु तद्भवेद्दानम् ॥१॥" ६, अधर्मपोषकं दानमधर्मदानम् , अधर्मकारणत्वाद्वाऽधर्म एवेति । उक्तं च-" हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः। यद्दीयते हि दानं, तजानीयादधर्माय ॥१॥"७ इति, धर्मकारणं यत्तद्धर्मदानं धर्म एव वा । उक्तं च-"सममणितणमुक्तेभ्यो, यहानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं, तद्दानं भवति धर्माय ॥१॥८, इति 'काहीइ यत्ति करिष्यति कञ्चनोपकारं ममायमिति बुद्ध्या यद्दानं तत्करिष्यति दानमुच्यते ६, तथा कृतं ममानेनैतत्प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत्कृतमिति दानमुच्यते । उक्तं च-"शतशः कृतोपकारो,दत्तं च सहस्रशो ममानेन । अहमपि ददामि किश्चित्प्रत्युपकाराय तद्दानम् ॥ १॥" इति १० । इति श्रीस्थानाङ्गदशमस्थानके ४४०प्रतौ ४११पत्रे ।। १६ ।। । इति श्रीमदकब्बरभूपालविशालचित्तालवालविवतिवृषरसालशालातिशालिशीलश्रीश्रीश्रीहीरविजयसूरीश्वरशिष्योपाध्याय
श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि स्थानाङ्गकियद्विचारनामा तृतीयस्तरङ्गः ॥३॥
Jan Education inte
For Private Personel Use Only
w.jainelibrary.org