________________
Jain Education Inte
शीलं यस्य परे स्तुवन्ति मतिनोऽप्यन्तर्मनोऽभीष्टदं कालेऽस्मिन्नपि जाग्रदुग्रमहिमा यद्गोत्रमन्त्रोद्भुतः । निःशेषागमवारिधेरपि सुखं दत्तावकाशे हृदि, स्थातुं न प्रभुरङ्गजश्विरमिदं यस्य त्रयं चित्रकृत् ॥ एतेषामादेशात् समुच्चितः प्रवचनादयं ग्रन्थः । श्रीहीरविजयगणपतिशिशुपाठककीर्त्तिर्विजयेन ॥ २८ ॥ संशोधितश्च सुविहितचूडामणिरामविजयबुधशिष्यैः । श्रीदेवविजयवाचक - वृषभैः कोविदकुलोतंसैः ॥ २६ ॥
किञ्चात्र लेखनशोधनविषये यत्नं चकार मच्छिष्यः । विनयविजयाभिधानः प्रथमादर्श च स लिलेख ॥ ३० ॥ अस्मिन् विचाररत्नाकरे आचाराङ्गाद्येकादशाङ्गात्मक विचारतरङ्ग संकुलो ऽपूर्वः पूर्वतटो वर्तते । औपपातिकादिद्वादशोपाङ्गनन्द्यनुयोगद्वाररूपशास्त्रविचारवीचिबहुलः कतिपयसूत्रमतान्तरावर्त्तयुत आवश्यकदशवैकालिकोत्तराध्ययनौघनियुक्त्यादिसूत्रसन्दर्भरूपकलिकाकलितञ्चालन्धमध्यो मध्यभागो वर्तते । निशीथ महानिशीथदशाश्रुतस्कन्धबृहत्कल्पव्यवहारपञ्चकल्पना मकच्छेदसूत्राना - भाशयस्फटिकस्फीतोऽपश्चिमपश्चिमतटो वर्तते । किं बहुना प्रकीर्णकप्रकरणादिविचारात्मजलतरङ्गध्वनितो यथाऽयं दर्शनेन नेत्रमधुरो निदर्शनेन मनोवेधकस्तथा श्रवणेनापि निरन्तरं कर्णपेशलसंगीतदायको वेलावारिधिः श्रुतरत्नाकरैकोपासनारसिकत्वेनेतस्ततो भ्राम्यमाणानां वेलार्थिनां परमार्थपूरकः केवलनिधानसंवाहको भविष्यतीत्यत्र नास्ति संशयलेशोऽपि । अस्मिन्प्रन्थे - " गणस्तव कोटिकः स्थानीयं कुलं वैराख्या शाखा, अमुकाभिधान आचार्य उपाध्यायश्च । साध्याः प्रवर्त्तिनी तृतीयोद्देशष्टव्या " इत्येवं रूपादग्बन्धउक्तः, न प्रवर्त्तकाभिधानं नापि श्रावकश्राविकयोरिति । तथा-: अजातश्मश्रुणः शिष्यादेराचारप्रकल्पाध्ययनं पाठयितुं न कल्पते " " यो वस्त्रस्यैकं थिग्गलं ददाति ददतं वा स्वादयति- अनुमोदयति तस्य दोषाः " इत्युत्सर्गः, कारणे तु त्रयाणामनुज्ञा परतः प्रायश्चित्तम् ।
For Private & Personal Use Only
www.jainelibrary.org