SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter नमस्काराच्च, यत्पुण्यं तन्मनः पुण्यादीनि । उक्तं च "अन्नं १ पानं २ च वस्त्रं ३ च आलयः ४ शयना ५ सनम् ६ । शुश्रूषा ७ वन्दनं तुष्टिः पुण्यं नवविधं स्मृतम् ॥ १ ॥ " इति स्थानाङ्गनवमस्थानके ४४० प्रतौ ३३७ पत्रे ॥ १७ ॥ C दुर्लभबोधिनः प्रतिमापलापिनः केचन स्थापनां नाङ्गीकुर्वते, तच्च तेषां भूताविष्टहसितप्रायं, सिद्धान्ते स्थापनायाः सत्यत्वेनोक्तत्वात् । सचायम् " दसविधे सच्चे पन्नत्ते । तं जहा जणवय १ संमय २ ठवणा ३, नामे ४ रूवे ५ पच्चसच्चे य ६ । ववहार ७ भाव जोगे ६, दस ओवम्मसच्चे य १० | ॥ १ ॥ " वृत्तिर्यथा - ' जणवय 'त्ति सत्यशब्दः प्रत्येकमभिसंबन्धनीयः ततश्र जनपदेषु देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यं श्रवितथमिति जनपदसत्यम्, यथा कोङ्कणादिषु पयः पिचं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्ठार्थप्रतिपत्तिजनकत्वव्यवहारप्रवृतेरेवं शेषेष्वपि भावना कार्येति । 'समय 'त्ति संमतं च तत्सत्यं चेति संमतसत्यम्, तथाहि - कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपालादीनामपि संमतमरविन्दमेव पङ्कजमिति, अतस्तत्र संमततया पङ्कजशब्दः सत्यः, कुवलयादावसत्योऽसंमतत्वादिति । 'ठवण ' त्ति स्थाप्यते इति स्थापना--यल्लेप्यकर्मार्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम्, यथाsजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति । 'नामे'त्ति नाम अभिधानं तत्सत्यं नामसत्यम्, यथा कुलमवयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति । 'रूवे 'ति - रूपापेक्षया सत्यम् रूपसत्यं, यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते नचासत्यताऽस्येति । ' पडुच्चसच्चे ' त्ति प्रतीत्य- आश्रित्य वस्त्वन्तरं सत्यम् प्रतीत्य सत्यं यथा श्रनामि For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy