SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विचार-का रत्नाकरः। अविरुद्धं । जोगा य बहुविहीया, एसो खलु जीयकप्पो उ ॥ १६ ॥" इति । जीत-आचरितमिदं चास्य लक्षणम्. "असढेण समाइन्नं, जं कत्थइ केणई असावजं । न निवारियमन्नेहि, बहुमणुमयमेयमायरियं ॥ १७ ॥” इति, आगमादीनां व्यापारणे उत्सर्गापवादावाह-'यथेति '-यत्प्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्तुः स च उक्तलक्षणः । तत्र तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहत्तव्ये वा वस्तुनि विषये आगमः-केवलादिः स्यात्-भवेत्ताहशेनेति शेषः। आगमेन व्यवहार-प्रायश्चितदानादिकं प्रस्थापयेत्-प्रवर्तयेन शेषः, आगमेऽपि पड्विधे केवलेनावन्ध्यबोधकत्वात्तस्य तदभावे च मनःपर्यायेणैवं प्रधानतराभावे इतरेणेति, अथवा 'नो' नैव 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात् यथा-यत् प्रकार तत्र श्रुतं स्यात्तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति । 'इच्चेतेहिं' इत्यादि निगमनं सामान्येनेति । यथा यथासौ तत्रागमादिः स्यात्तथा तथा व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनम् । इति स्थानाङ्गपञ्चमस्थानकाद्वतीयादेशके ४४०प्रतौ २६६पत्रे ॥ १६ ॥ ननु धर्मपुण्ययोः कः प्रतिविशेष? उच्यते, धर्मः श्रुतचारित्रादिः । पुरवं तत्फलभूतं शुभं कर्म । अयमेव भगवतीत्तावभिप्रायस्तथाऽत्रापि णवविहे पुग्ने पन्नेत्ते । तं जहा-अन्नपुन्ने १ पाणपुग्ने २ वत्थपुने ३ लेणपुन्ने ४ सयणपुन्ने ५ मणपुने६ वतिपुन्ने कायपुग्ने ८ नमोकारपुन्ने ह । इति । वृत्तिर्यथा-'पुन्ने' त्यादि, पात्रायान्नदानाद्यस्तीर्थकरनामादिपुण्यप्रकृतिवन्धस्तदन्नपुण्यमेवं सर्वत्र । नवरं 'लेण'त्ति लयन-गृहम् , शयनं-संस्तारकः, मनसा गुणिषु तोषात् , वाचा प्रशंसनात् , कायेन पर्युपासनात् , ॥३७॥ Jain Education Intern For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy