SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ बीकर्म इत्यादि वृथा प्रलपन्तांताना पश्चानामपि व्यवहार आगमे सिया, विचार रत्नाकरः। ॥३६॥ केचिच्च वयं सिद्धान्तोक्तमेव स्वीकुर्म इत्यादि वृथा प्रलपन्तः परंपराचरणाद्यपलपन्ति, तचाज्ञानविलसितम्। यतःशास्त्रे मुनीनांप्रायश्चित्तदानाधिकारे आगमश्रुताज्ञाधारणाजीतानां पश्चानामपि व्यवहारत्वनोक्तत्वात्। तच्चेदम् पंचविहे ववहारे पण्णत्ते, तंजहा-आगमे सुए आणा धारणा जीए। जहा से तत्थ आगमे सिया, तत्थ आगमेणं ववहारं पट्टवेज्जाशनो से तत्थ आगमे सिया, जहा से तत्थ सुते सिया, सुतेणं ववहारं पट्टवेज्जा रानो से तत्थ सुते सिया, एवं जाव जहा से तत्थ जीए सिया, जीएणं ववहारं पठ्ठवेज्जा । इच्चेतेहिं पंचहिं ववहारं पट्टवेजा । तंजहा-आगमेणं जाव जीएणं, जहा जहा से तत्थ आगमे जाव जीए तहा तहा ववहारं पट्टवेज्जा इति" वृत्तिर्यथा-'पंचविहे इत्यादि । व्यवहरणं व्यवहारः, व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, इह तु तन्निबन्धनत्वाद ज्ञानविशेषोऽपि व्यवहारः। तत्रागम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः १ शेषं श्रुतमाचारप्रकल्पादि श्रुतम् २ नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति। यद्गीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा ३ गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिाकृतातामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुक्त सा धारणा । वैयावृत्त्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषस्यानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धारणं धारणेति । ४। तथा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या संहननधृत्यादिपरिहाणिमवेक्ष्य यत्प्रायश्चित्तदानम् यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो Jan Education For Private & Personal Use Only Mainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy