SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आचार्योपाध्याययोर्गणे गच्छविषये आज्ञां वा योगेषु प्रवर्तनलक्षणां धारणां वा धेयेषु प्रवर्तनलक्षणां नो-नैव सम्यग् यथौचित्यं प्रयोक्ता तयोः प्रवर्तनशीलो भवति, इदमुक्तं भवति-दुर्विनीतत्वाद्गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति, कालिकाचार्यवदित्येकम् । तथा गणविषये रत्नाधिकतया यथाज्येष्ठं कृतिकर्म तथा वैनयिकविनयं नो-नैव सम्यक् प्रयोक्ता भवति, आचार्यसंपदां साभिमानत्वात् । यत आचार्येणापि प्रतिक्रमणक्षामणादिषूचितानामुचितविनयः कर्तव्य एवेति द्वितीयम् । तथाऽसौ यानि श्रुतपर्यवजातानि-यान् श्रुतपर्यायप्रकारानुद्देशकाध्ययनादीन धारयति हृद्यविस्मरणतस्तानि काले काले यथावसरं नो सम्यगनुप्रवाचयिता-तेषां पाठयिता भवति । 'गणेत्ति' इह संबध्यते, तेन गणे-गणविषये गणमित्यर्थः। तस्याविनीतत्वात्स्वस्य वा सुखलंपटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयम् । तथाऽसौ गणे वर्तमानः 'सगणियाएत्ति' खगणसम्बन्धियां 'परगणियाएत्ति' परगणसत्कायां वा निग्रन्थयां तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौधमध्यावहिलेश्या-अन्तःकरणं यस्यासौ बहिर्लेश्य आसक्तो भवतीत्यर्थः एवं गणादपक्रामतीति । न चेदमधिकगुणत्वेनास्यासंभाव्यम् यतः पठ्यते-"कम्माइं नूर्ण घणचिक्कणाइं गुरुयाई वज्जसाराई । नाणढियंपि पुरिस, पंथाओ उप्पहं नेति ॥१॥” इति चतुर्थम् तथा मित्रं ज्ञातिर्गणो वा सुहृत्स्वजनवर्गो वा से-तस्याचार्यादेः कुतोऽपि कारणागणादपक्रमेत्,अतस्तेषां सुहृत्स्वजनानां संग्रहाद्यर्थ गणादपक्रामणं प्रज्ञप्तम् । तत्र संग्रहस्तेषां स्वीकार उपग्रहो वस्त्रादिभिरुपष्टंभ इति पश्चमम् । इति स्थानाङ्गपंचमस्थानकद्वितीयोदेशके २४२ प्रती १५२ पत्रे ॥१५॥ Jhin El ema For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy