SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ३३ ॥ उदीर्णमुदितं प्रबलं वा कर्म - मिथ्यात्वमोहनीयादि यस्य स उदीर्णकर्मा खलु वाक्यालङ्कारे अयं प्रत्यक्षः पुरुष उन्मत्तको मदिरादिना विप्लुतचित्तः स इव उन्मत्तकभूतः, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतो भूतशब्दस्य प्रकृत्यर्थत्वादुदीर्णकर्मा, यतोऽयं उन्मत्तकभूतः पुरुषः तेन कारणेन 'मे इति' मां एषःअयमाक्रोशति शपति, 'उपहसइत्ति' उपहासं करोति, अपघर्षति अपघर्षणं करोति, निश्छोटयति सम्बन्धान्तरसम्बन्धं हस्तादौ गृहीत्वा बलात्क्षिपति, निर्भर्त्सयति दुर्वचनैः, बध्नाति रज्वादिना, रुणद्धि कारागारप्रवेशादिना, छवेः- शरीरावयवस्य हस्तादेः छेदं करोति, प्रमारं - मरणप्रारंभः प्रमारोमूर्च्छाविशेषो मारणस्थानं वा तं नयतिप्रापयतीति, अपद्रावयति मारयति, अथवा प्रमारं मरणमेव उद्दवेइत्ति' उपद्रवयति उपद्रवं करोतीति, पतद्ग्रहं पात्रं कम्बलं प्रतीतं पादप्रोञ्छनं-रजोहरणं आच्छिनत्ति-बलादुद्दालयति, विच्छिनत्ति - विच्छिन्नं करोति दूरे व्यवस्थापयतीत्यर्थः, अथवा वस्त्रमीषच्छिनत्ति- आच्छिनत्ति, विशेषेण छिनत्ति-विच्छिनत्ति, भिनत्ति - पात्रं स्फोटयति अपहरति - चोरयति । वाशब्दाः सर्वे विकल्पार्थः इत्येकं परीषहादिसहनालम्बनस्थानं । इदं | चाक्रोशादिकमिह प्राय आक्रोशवधाभिधानपरी पहद्वयरूपं मन्तव्यम्, उपसर्गविवक्षायां तु मानुष्यकं प्राद्वेषि| काद्युपसर्गरूपमिति । तथा यक्षाधिष्ठितो- देवताधिष्ठितोऽयं, तेनाक्रोशयतीत्यादि द्वितीयम् । तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वादिकर्मवशवर्त्ती 'ममं चणंति' मम पुनस्तेनैव मानुष्यकेण भवेन जन्मना वेद्यते-अनुभूयते यत्तत्तद्भव वेदनीयं कर्मोदीर्ण भवति अस्ति तेनैष मामाक्रोशयतीत्यादि तृतीयम् । तथा एष बालिशः पापाभीतत्वा Jain Educationational For Private & Personal Use Only रत्नाकरः । ॥३३॥ w.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy