________________
स्थगीतार्थनिवेदनाय गीतार्थो यदतिचारनिवेदनं करोति साऽज्ज्ञा, असकृदालोचनादानेन यत्प्रायश्चित्तविशेषावधारणं साधारणा, तयोन सम्यग्प्रयोक्तेति कलहभागिति प्रथमम् । तथा स एव 'अहारायणियाए इति' रत्नानि द्विधा, द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्केतनादीनि भावतोज्ञानादीनि।तत्र रत्नानादिभिर्व्यवहरतीति रात्निका-बृहत्पर्यायो यो रात्निको यथारानि तद्भावस्तत्ता तया यथारात्निकतया यथाज्येष्ठं कृतिकर्म-वन्दनकं |विनय एव वैनयिकं तच्च न सम्यक प्रयोक्ता अन्तर्भूतकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयम् । तथा स| एव यानि श्रुतस्य पर्यवजातानि-सूत्रार्थप्रकारान् धारयति-धारणाविषयीकरोति तानि काले काले-यथावसर न सम्यगनुप्रवाचयिता भवति न पाठयतीत्यर्थः इति तृतीयम् । कालेऽनुप्रवाचयितेत्युक्तम्, तत्र गाथा:-"कालकमेण पत्तं, संवच्छरमाइणा उ जं जंमि । तं तंमि चेव धीरो, वाएज्जा सो य कालोऽयं ॥१॥तिवरिसपरियागस्स उ, आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्मं, सूअगडं नाम अंगंति॥२॥ दसकप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओवि य, अंगे ते अठ्ठवासस्स ॥३॥ दसवासस्स विवाहो, एकारसवासयस्स य इमे उ । खुड्डियविमाणमाई, अज्झयणा पंच नायव्वा ॥४॥बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा तेरसवासस्स तहा, उठाणसुयाइया चउरो॥५॥ चउद्सवासस्स तहा, आसीविसभावणं जिणा बिंति । पन्नरसवासस्स य, दिट्ठीविसभावणं तह य ॥६॥ सोलसवासाईसुं, एकोत्तरवुड्ढिएसु जहसंखं । चारणभावणमहसुविणभावणा तेअगनिसग्गा ॥७॥ एगणवीसगस्स उ, दिट्टीवाओ दुवालसममंगं । संपुण्णवीसवरिसो,
Jain Education
For Private & Personel Use Only
Maujainelibrary.org