________________
विचार
रत्नाकरः।
॥२९॥
षणवन्तं करोति। कुबोधकुशीवतत्रण्टमशुच्यादि तत्समान
त्यसदूषणोद्भावकत्वेन वेति ।
स्वभावबोधत्वनाप्रज्ञापनीयः स्थाणुसमान इति । यस्तु प्रज्ञाप्यमानो न केवलं खाग्रहान्न चलति अपितु प्रज्ञापक दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः । खरा-निरन्तरा निष्ठुरा वा कण्टका यस्मिंस्तत्खरकण्टकं बब्बूलादिडालम् खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चति अपितु तद्विमोचकपुरषादिकं हस्तादिषु कण्टकैर्विध्यति । अथवा खरण्टयति लेपवन्तं करोति यत्तत्खरण्टमशुच्यादि तत्समानः, यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति। कुबोधकुशीलतादुष्पसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसद्दषणोद्भावकत्वेन वेति । इति श्रीस्थानाङ्गचतुर्थे स्थानके तृतीयोद्देशके ६४० प्रतौ २०५ पत्रे ॥९॥
ननु निरर्थकं धर्माचरणं, फलवन्ध्यत्वात् , यद्येतस्याशेषस्य यथोक्तफलाव्यभिचारः स्यात्तदा भूयांसोऽप्यनशनादिसदनुष्ठानेन विपन्नाः कथं खेन्द्रत्वादिविभवं न दर्शयन्ति?, मैवं, तदनागमने हेतुचतुष्टयस्य शास्त्रे प्रतिपादितत्वात् । पूर्वकाले तत्कारणसद्भावे कथमागतास्ते श्रूयन्ते इति चेत्तत्र पुण्यप्राबल्यं कारणमिति, सर्व सुस्थं, देवानागमनहेतुप्रतिपादकं शास्त्रं चेदम्_ "चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागाच्छत्तए । तंजहा-अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववन्ने से णं माणुस्से कामभोए नोआढाइ नो परियाणाइ नो अद्रं बंधइ नो नियाणं पकरेइ नो ठिइप्पकप्पं करेइ । अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए तस्स णं माणुस्से पेम्मे वोच्छिणे दिवे संकते
Jain Educatio
n
al
For Private & Personel Use Only
Hिainelibrary.org