________________
Jain Educatio
चणं समुट्ठियं परिणयं वासिउकामं वाउकाए विधुणाइ ३ । इच्चेहिं तिहिं ठाणेहिं अप्पवुट्टिकाए सिया । इति” वृत्तिर्यथा - 'तिहिं' इत्यादिभिरष्टाभिः सूत्रैराह । सुगमानि चैतानि किंतु 'अप्पवुट्टिकाएत्ति' अल्पः - स्तोकोऽविद्यमानो वा वर्षणं-वृष्टिरधःपतनं वृष्टिप्रधानः कायो-जीवनिकायो व्योमनिपतदष्काय इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, तस्याः कायो - राशिर्वृष्टिकायः, अल्पश्चासौ वृष्टिकायश्च अल्पवृष्टिकायः स स्याद्भवेत्तस्मिंस्तत्र मगधादौ । चशब्दोऽल्पवृष्टिकारणान्तरसमुच्चयार्थः।णमित्यलङ्कारे देशे - जनपदे, प्रदेशे तस्यैवैकदेशरूपे, वाशब्दौ विकल्पार्थों, उदकस्य योनय उदकयोनयः- परिणामकारणभूता उदकयोनयः त एवोदकयोनिका उदकजननखभावा व्युत्क्रामन्तिउत्पद्यन्ते, व्यपक्रामन्ति- च्यवन्ते । एतदेव यथायोगं पर्यायत आचष्टे - च्यवन्ते उत्पद्यन्ते क्षेत्रस्वभावादित्येकम् । तथा | देवा वैमानिका ज्योतिष्काः, नागा-नागकुमारा भवनपत्युपलक्षणमेतत् यक्षा भूता इति व्यन्तरोपलक्षणम् । अथवा देवा इति सामान्यम्, नागादयस्तु विशेषः, एतद्ग्रहणं च प्राय एषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय विचित्रत्वाद्वा सूत्रगतेरिति । नो सम्यगाराधिता भवन्ति, अविनयकरणाज्जानपदैरिति गम्यते । ततश्च तत्र मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम् - उत्पन्नं उदकप्रधानं पौद्गलं- पुद्गलसमूहो मेघ इत्यर्थः । उदकपौद्गलं तथा | परिणतं उदकदायकावस्थाप्राप्तम् अत एव विद्युदादिकरणाद्वर्षितुकामं सत् अन्यं देशं मगधादिकं संहरन्ति - नयन्तीति द्वितीयम् । अभ्राणि - मेघास्तैर्वादलकं दुर्दिनं अभ्रवालकं 'वाउआएत्ति' वायुकायः- प्रचण्डवातो विधुनाति-ध्वंसयतीति तृतीयम् । 'इच्चे इत्यादि' निगमनम् । इति स्थानाङ्गतृतीयस्थानकतृतीयोदेशके ४४० प्रती १२६ पत्रे ॥ ७ ॥
For Private & Personal Use Only
w.jainelibrary.org