________________
शीलार्थतन्नतानि वैतानीति । तेणामेवात्त' ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन, अथवा तेनैव धर्मस्थापकपुरुषण न परिवाहिना तस्य प्रत्युपकरणीयस्याऽम्बापितुः। इति स्थानाङ्गतृतीयस्थानके प्रथमोद्देशके ४४० प्रती १०७ पत्रे ॥४॥
उपस्थापनाया अक्षराणि लिख्यन्ते"तओ सेहभूमीओ पण्णत्ता, । तंजहा-उक्कोसा मज्झिमा जहन्ना । उक्कोसा छम्मासा, मज्झिमा चउम्मासा, जहन्ना सत्त राइं दिया इति” वृत्तियथा-व्रतारोपणे कालविशेषानाह-'तओ सेहेत्यादि' सुगमम् । किंतु 'सेहत्ति' 'षि संराद्धौ' इति वचनात्, सिध्यते-निष्पाद्यते यः स सेधः शिक्षा वाऽधीत इति शैक्षः तस्य भूमयो-महावतानामारोपणकाललक्षणाः अवस्थाः पदव्य इति सेधभूमयः शैक्षभूमयो वेति, अयमभिप्रायः-उत्कृष्टतः षड्भि-| मासैरुत्थाप्यते न तानतिक्रम्यते । मध्यमतश्च चतुर्भिर्मासैरुत्थाप्यते । जघन्यतः सप्तभिरेव रात्रिंदिवैगृहीतशिक्षत्वादिति । उक्तं च-"सेहस्स तिन्नि भूमी, जहन्न तह मज्झिमा य उक्कोसा। राइंदि सत्त चउमासिया य छम्मासिया चेव॥१॥"त्ति आसु चायं व्यवहारोक्तो विभाग:-पुव्वोवठ्ठपुराणे, करणजयट्ठा जहन्निया भूमी। उक्कोसा दुस्से(म्मे)ह, पडुच्च दुस्सद्दहाणं च ॥१॥ एमेव य मज्झिमगा, अणहिज्जंते असद्दहंते य । भावियमेहा-| विस्सवि, करणजयट्ठा य मज्झिमगा॥२॥” इति श्रीस्थानाङ्गतृतीयस्थानकद्वितीयोद्देशके ४४० प्रतौ ११पत्रे ॥५॥
सिद्धान्ताध्ययनं साधूनामेव सम्मतं न गृहस्थानाम् , यदि तेषामपि तत्स्यात्तर्हि तेषामपि मुनीनामिव श्रुतस्थविरत्वमुक्तं स्यात्, न च तत्तथोक्तं, मुनीनां तूक्तमेव । तत्पाठश्वायम्
Jain Educat
For Private Personal Use Only
DATv.jainelibrary.org