________________
प्रत्युपक मशक्यमितियावत् हे श्रमण ! हे आयुष्मन् ! समस्तनिदेशो वा हे श्रमणायुष्मन् ! इति भगवता शिष्यः संबोधितः। अम्बया-मात्रा सह पिता-जनकः अम्बापिता तस्येत्येकं स्थानम् , जनकत्वेनैकत्वविवक्ष
णात् । तथा-'भहिस्सत्ति भर्तुः पोषकस्य स्वामिन इत्यर्थः, इति द्वितीयम् । धर्मदाता चाचार्यो धर्माचार्यस्त• स्येति तृतीयम् । आह च-“दुष्पतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः॥१॥” इति तत्र जनकदुष्पतिकार्यतामाह-संपाओ'त्ति प्रातः-प्रभातं तेन समं संप्रातः संपातरपिच-प्रभातसमकालमपि च यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः । कश्चिदिति कुलीन एव न तु सर्वोऽपि पुरुषो-मानवः, देवतिरश्चोरेवंविधव्यतिकरासंभवात्। शतं पाकानाम्-औषधिक्काथानां पाके यस्य, औषधिशतेन वा सह पच्यते यत् ,शतकृत्वो वा पाको यस्य, शतेन वा रूपकाणांमूल्यतः पच्यते यत्तच्छतपाकम् । एवं सहस्रपाकमपि। ताभ्यां तैलाभ्यां 'अब्भंगित्ता' अभ्यङ्गं कृत्वा 'गंधवट्टएणं ति गन्धाष्टकेन-गन्धद्रव्यक्षोदेन उद्वयॊद्वलनं कृत्वा त्रिभिरुदकैः-गन्धोदकोष्णोदकशीतोदकर्मजयित्वा-स्लपयित्वा मनोज्ञं-कलमौदनादि स्थाली-पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपक्कं वा न तथाविधं स्यादितीदं विशेषणमिति शुद्धं-भक्तदोषवर्जितम् स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः । अष्टादशभिर्लोकप्रसिदैर्व्यञ्जनकैः-शालनकैस्तक्रादिभिः (सूपादिभिः)वा संकुलं सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तद्व्यञ्जनाकुलं चेति, अत्र भेदपद
in Education Interational
For Private Personel Use Only
www.jainelibrary.org