SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ कजइत्ति"। यच्च पापकर्मण एव कारणं तदल्पायुष्टाया अपि कारणमिति । नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्त्तव्यमापन्नमिति, उच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः ? । यतः-"अधिकारिवशाच्छास्त्रे धर्मसाधनसंस्थितिः। व्याधिप्रतिक्रिया तुल्या, विज्ञेया गुणदोषयोः ॥१॥” तथा-गृहिणं प्रति जिनभवनकारणफलमुक्तं-" एतदिह भावयज्ञः, सद्गहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या, नियमादपवर्गबीजमिति ॥१॥" तथा "भन्नइ जिणपूयाएं, कायवहो जइवि होइ उ कहिंचि । तहवि तई परिसुद्धा गिहीण कूवाहरणजोगो ॥२॥ असदारंभपवत्ता, जं च गिही तेण तेसि विन्नेया । तन्निवित्तिफलचिय, एसा परिभावणीयमिदं ॥३॥" दानाधिकारे तु श्रूयते, द्विविधाः श्रमणोपासकाः-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेति । यथोक्तम्-"संविग्गभावियाणं, लुद्धयदिहतभावियाणं च । मोत्तूण खेत्तकाले, भावं च कहिंति सुद्धंछं ॥१॥" इति । तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति । संविग्नभावितास्त्वौचित्येनेति । तच्चेदम्-“संथरणमि असुद्धं, दुण्हवि गिण्हंतदितयाणहियं । आउरदिढतेणं, तं चेव हियं असंथरणे ॥१॥” तथा-" नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं व्वाणं देसकालसद्धासकारकमजुयमित्यादि” क्वचित् 'पाणे अइवाइत्ता मुसं वइत्ता' इत्येवं भवति शब्दवर्जा वाचना तत्रापिस एवार्थः। क्त्वाप्रत्ययान्तं (न्ततया)वा व्याख्येया।प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रतिलभ्य अल्पायुष्कतया कर्म बध्नन्तीति प्रक्रमः, शेषं तथैव । अथवा प्रतिलंभनस्थानकस्यैवेतरे विशेषणे, तथाहि-प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा-भोः साधो! स्वार्थसिद्धमिदं भक्तादि कल्प Jain Educat9221 For Private & Personal Use Only Ow.iainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy