SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकर ॥२४॥ निरवद्यदाननिमित्तायुष्कापेक्षययमल्पायुष्टा समवसेया । अथ नैतदेवं निर्विशेषणत्वात्सूत्रस्याल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वादतः कथमभिधीयते स विशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कता इति?, उच्यते, अविशवणेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यम यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घायुष्टां वक्ष्यति । न हि समानहेतोः कार्यवैषम्यं यज्यते. सर्वत्रानाश्वासप्रसङ्गात् । तथा-'समणोवासयस्स णं भंते!तहारूवं समणं वा माहणं वा अफासएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा! बहुतरिया से निजरा कज्जा अप्पतराए से पावे कम्मे कजई' इति भगवतीवचनश्रवणादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपा अल्पायुष्टा ।। नहि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात् । अथापासुकदानस्य भवतूक्ता अल्पायुष्टा प्राणातिपातमृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम् , एकयोगप्रवृत्तत्वादविरुद्धत्वाचेति । अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदपासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते इतराभ्यां तु को विचार इति?, नैवम्, अप्रासुकेनेति तत्र विशेषणस्यानर्थकात्वात्, प्रासुकस्यापि अल्पायुष्टाफलत्वाविरोधात्, उक्तंच भगवत्याम्-"समणोवासयस्स गं-भंते! तहारूक असंजयअविरयापडिहयपञ्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ?, गोयमा ? एगतसो पावे कम्मे कज्जइ णो से काइ निज्जरा ॥२४॥ JainEducation For Private Personal Use Only Slainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy