SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रमणस्तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो मूलगुणधरस्तं, वाशब्दौ विशेषणसमुच्चयार्थौ । प्रगता असवोऽसुमन्तः प्राणिनो यस्मात्तत्प्रासुकम् तन्निषेधादनासुकं सचेतन मित्यर्थः । तेन इष्यते गवेष्यते उद्गमादिदोषविकलतया साधुभिर्यत्तदेषणीयं कल्प्यं तनिषेधादनेषणीयं तेन । अश्यते भुज्यते इत्यशनं ओदनादि । पीयते इति पानं-सांवीरकादि । खादनं खादस्तेन निवृत्तं खादनार्थ तस्य निवर्त्यमानत्वादिति खादिम-भक्तौषधादि । स्वादनं स्वादः, तेन निवृत्तं स्वादिमं च-दन्तपावनादीति । समाहारद्वन्द्वः तेन, गाथाश्चात्र "असणं ओदणसत्तुग मुग्ग जगाराइ खजगविही य । खीरादि सूरणादि मंडगपभिई य विन्नेयं ॥१॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सम्वो कक्कडगजलाइयं च तहा ॥२॥ भत्तोसं दंताई खज्जूरं नालिकेरदक्खाई। ककडिअंबगफणसाइ, बहुविहं खाइमं नेयं ॥३॥ दंतवणं तंबोलं, चित्तं अजगकुहेडगाईयं । महुपिप्पलिसुंठाई, अणेगहा साइमं होइत्ति" ॥४॥ प्रतिलम्भयिता लाभवन्तं करोतीत्येवंशीलो यश्च भवति । ते अल्पायुष्कतया कर्म प्रकुर्वन्तीति प्रक्रमः । 'इच्चेतेहिंति' इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैत्रिभिः स्थान वा अल्पायुष्कतया कर्म प्रकुर्वन्तीति निगमनमिति । इह च प्राणा तिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुबन्धनिबन्धनत्वेन तत्कारणत्वमुक्तं द्रष्टव्यमिति । इयं चास्य सूत्रस्य भावना । अध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति । अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थ पृथिव्याद्यारंभण न्यासापहारादिना च प्राणातिपातादिषु वर्त्तते तस्य सरागसंयम खजूरं नालिलिमुंठाई, अवन्तीति Jain Educator For Private & Personel Use Only O w.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy