________________
विचार
रत्नाकर
॥२३॥
वमभ्युत्थातुमभ्युपगन्तुमिति १५ यथार्हमतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात्प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तम्, उक्तंच-"पावं छिंदइ जम्हा, पायच्छित्तं तु भण्णते तेण । पाएण वावि चित्तं, विसोहए तेण पच्छित्तं ॥१॥ त्ति । तपाकर्म निर्विकृतिकादिकं प्रतिपत्तुम्-अभ्युपगन्तुमिति १६ । इति श्रीस्थानाङ्गद्वितीयस्थानकप्रथमोद्देशके ४४० प्रतौ ५४।५५ पत्रे ॥२॥
केचिच्चानागमज्ञा मुनीनामशुद्धाशनादिदानं नरकायुर्बन्धफलमिति वदन्ति, तच्चानागमिकम् , अल्पायुष्कताया एवागमे तत्फलत्वेनोक्तत्वात् , अत्राशङ्कासमाधाने तु एतत्सूत्रतात्पर्यावबोधावगम्ये , तच्चेदम्
"तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पकरेंति । तंजहा-पाणे अइवाइत्ता भवति १ मुसं वइत्ता भवति २ तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवति३ इच्चेतेहिं तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पकरेंति" इति वृत्तिर्यथा-'तिहिं ठाणेहिं इत्यादि' त्रिभिः स्थानः-कारणैर्जीवाः-प्राणिनः 'अप्पाउयत्ताएत्ति' अल्पं-स्तोकं आयुर्जीवितं यस्य सोऽल्पायुः तद्भावस्तत्ता तस्यै अल्पायुष्कतायै तदर्थ तन्निबन्धनमित्यर्थः । कर्मायुष्कादि । अथवा अल्पमायुर्जीवितं यत् आयुषस्तदल्पायुः तद्भावस्तत्ता तया कर्मायुलक्षणं प्रकुर्वन्ति-बन्नन्तीत्यर्थः । तद्यथा-प्राणान् स प्राणिनोऽतिपातयितेति शीलार्थे तृनि तृन्नन्तमिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः। एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा तत्प्रकारं रूपं-स्वभावो नेपथ्यादि यस्य स तथारूपो दानोचित इत्यर्थः तं श्राम्यति-तपस्यतीति
॥२३॥
Jain Education
For Private Personel Use Only
Pallainelibrary.org