________________
विचार
रत्नाकर
णामो लेश्येति । स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः । यस्मादुक्तं कर्म हि कार्मस्य कारणम् अन्येषां च शरीराणामिति । तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः १ तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स वाग्योगः २ तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनोयोगः ३ ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतियोंग उच्यते तथैव लेश्यापीति" । अन्ये तु व्याचक्षते-कर्मनिष्यन्दो लेश्येति, सा च द्रव्यभावभेदाद द्विधा । तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तजन्यो जीवपरिणाम इति । इयं च षप्रकाराजम्बूखादकपुरुषषट्कदृष्टान्ताद् ग्रामघातकपुरुषषद्कदृष्टान्ताद्वा आगमप्रसिद्धावसेयम् । इति श्रीस्थानाङ्गप्रथमस्थानके ४४० प्रतौ ३११३२ पत्रे ॥१॥
पारम्पर्यवर्जिताः केचन विशिष्टक्षमाश्रमणप्रत्युपेक्षणादिकं गुरुपरम्परागतं योगविधिस्वरूपमजानाना दुष्करतराचाम्लादिलघुकमैकसाध्यनिरन्तरतपःक्रियाभीरवश्व योगोद्वहनं उद्देशसमुद्देशानुज्ञादिवचनैः प्रतिपदमागमोक्तमपि नाङ्गीकुर्वन्ति, तच तेषां चलनश्रमभिया मार्गत्यागपूर्वकं गर्त्तापातप्रायम्, योगविधिसत्तासूचकः सिद्धान्तश्चायम्-"दो दिसाओ अभिगिज्झ कप्पति निग्गंथाण वा णिग्गंधीण वा पव्वावित्तए-पाईणं चेव उदिणं चेव, एवं मुंडावित्तए सिक्खावित्तए उट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायं उद्दिसित्तए सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तए आलोइत्तए पडिक्कमित्तए निंदित्तए गरहित्तए विउहित्तए विसोहित्तए अक
॥२२॥
Jain Educatiolation
For Private
Bilujainelibrary.org
Personel Use Only