________________
॥ अथ तृतीयस्तरङ्गः ॥ "रसाश्रितं दुर्मदवादिवादग्रीष्मोष्मकाषङ्कषमाप्तशब्दम् ।
सतां सदा शस्यफलासिहेतुं, प्रीत्याऽऽश्रये श्रीजिनशासनाब्दम् ॥१॥" ___अथ क्रमायाताः श्रीस्थानाङ्गविचारा लिख्यन्ते तत्र प्रथमं कृष्णपाक्षिकशुक्लपाक्षिकयोः स्वरूपजिज्ञासया लेश्याखरूपविषये मतान्तरजिज्ञासया च सटीक सूत्रद्वयं लिख्यते
"एगा कण्हपक्खियाणं वग्गणा एगा सुक्कपक्खियाणं वग्गणा १। एगा कण्हलेसाणं वग्गणा एगा नीललेसाणं वग्गणा एवं जाव सुक्कलेसाणं वग्गणा २।" वृत्तियथा-'एगा कण्हपक्खियाणं वग्गणा इत्यादि। कृष्णपाक्षिकेतरयोर्लक्षणम्-"जेसिमवडो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुक्कपक्खिया खलु, अहिए। पुण कण्हपक्खी य॥१॥ इति” एतद्विशेषितोऽन्यो दण्डकः। 'एगा किण्हलेसाणं इत्यादि । लिश्यते प्राणी कर्मणा यया सा लेश्या । यदाह- श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः' । तथा-कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते॥१॥ इति”। इयं च शरीरनामकर्मपरिणतिरूपा, योगपरिणतिरूपत्वात् । योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता । "योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या ?, यस्मात्सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहर्ते शेषे योगनिरोधं करोति, ततोऽयोगत्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते योगपरि
泰泰察察察察器蒙察家察察
Jain Educ
a
tiona
For Private Personel Use Only
Tww.jainelibrary.org