________________
ननु शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकमागमे आर्द्रककथानकं तु श्रीवर्द्धमानतीर्थावसरे तत्कथमस्य शाश्वत - त्वमित्याशंक्याह ॥ " काममित्यादि” काममित्येतदभ्युपगमे इष्टमेवैतदस्माकम् । तयथा - द्वादशाङ्गमपि जिनवचनं नित्यं शाश्वतं महाभागं - महानुभावम्, आमषषध्यादिऋद्धिसमन्वितत्वान्न केवलमिदम् सर्वाण्यप्यध्ययनान्येवंभूतानि । तथा सर्वाक्षरसन्निपाताश्च-मेलापका द्रव्यार्थादेशान्नित्या एवेति । ननु मतानुज्ञानाम निग्रहस्थानं भवत इत्याशङ्कयाह - 'तहवियइत्यादि' । यद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतम्, तथाऽपि कोऽप्यर्थस्तस्मिन् समये तथा क्षेत्रे कुतश्चिदार्द्रकादेः सकाशादाविर्भावमास्कन्दति, स तेन व्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषु उत्तराध्ययनेषु यथा । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धपष्ठाध्ययननियुक्ती २७१ प्रतौ २४३ पत्रे ॥ २० ॥
केचिच्चात्रासदभिमानकवलितविशदाशयाः पण्डितंमन्याः परेषां भोजनाद्यनुकम्पादानमपि निषेधयन्ति, ॐ वदन्ति चासद्वचनानि, मण्डूकपिण्डेन भुजगभोजनतुल्यं तद्दानमित्यादीति तच्चाज्ञानम्, यतोऽनुकम्पादानस्य * श्रीजिनशासने कुत्राप्यनिषिद्धत्वात् । प्रत्युत श्रीराजमनीये केशी गणधरः श्रीप्रदेशिनं प्रति पूर्व रमणीयो | भूत्वा पश्चादरमणीयो मा भूया इत्यादिवाक्यैरनुकम्पादानस्य विहितत्वेन प्रतीयमानत्वात् । नच वाच्यम् । | 'सुहिएस अ दुहिएस अ, जा मे अस्संजएस अणुकंपा । रागेण व दोसेण व, तं निंदे तं च गरिहामि" । इत्यत्र तद्दानस्य प्रतिक्रान्तत्वादिति । तत्र निषेधतात्पर्यस्य रागद्वेषयोरेव विश्रान्तत्वात् । तथा चात्रापि तद्धर्मप्रशंसा
Jain Educatio tional
For Private & Personal Use Only
w.jainelibrary.org