SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ रत्नाकरता विचार ॥२०॥ ____“नथि बंधे व मोक्खे वा, नेवं सन्नं निवेसए । अत्थि बंधे व मोक्खे वा, एवं सन्नं निवेसए ॥ १५॥" वृत्तियथा-बन्धः प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवन खव्यापारतः स्वीकरणम् । स चामूर्तस्यात्मनो गगनस्येव न विद्यते, इत्येवं संज्ञां नो निवेशयेत् । तथा तद्भावाच मोक्षस्याप्यभावः, इत्येवमपि संज्ञां नो निवेशयेत् कथं तर्हि संज्ञां निवेशयेत् , ? इत्युत्तरार्द्धन दर्शयति-अस्ति बन्धः कर्मपुद्गलैर्जीवस्येत्येवं संज्ञां निवेशयेदिति । यत्तुच्यते-मूर्तस्यामूर्तिमता सम्बन्धो न युज्यते इति, तदयुक्तम् । आकाशस्य सर्वव्यापितया पुद्गलैरपि सम्बन्धो दुर्निवार्यः, तदभावे तद्वयापित्वमेव न स्यात् । अन्यच्चास्य विज्ञानस्य हृत्पूरमदिरादिना विकारः समुपलभ्यते, न चासो सम्बन्धमृते, अतो यत्किञ्चिदेतदिति । अपि च संसारिणामसुमतां सदा तैजसकार्मणशरीरसद्भावादात्यन्तिकममूर्त्तत्वं न भवतीति । तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तद्भावे बन्धस्याप्यभावः स्यादित्यतोऽशेषबन्धनापगमस्वभावो मोक्षोऽप्यस्ति, इत्येवं संज्ञां निवेशयेत् । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धपञ्चमाचारश्रुताख्याध्ययने २७१ प्रतौ २३६ पत्रे ॥१९॥ ननु भगवत्यादौ ऋषभदत्तादय एकादशाङ्गिनः श्रूयन्ते, तत्सम्बन्धाश्चैकादशाङ्गान्तःपातिनः, कथमिदं घटते ? कथं वा द्वादशाङ्ग-या नित्यत्वं घटते ? । एतच्छङ्कातङ्कापनोदाय लिख्यते| "काम दुवालसंग, जिणवयणं सासतं महाभागं । सव्वज्झयणाणि तथा, सव्वक्खरसन्निवाया य॥५॥ तहवि य कोई अत्थो, उप्पज्जति तम्मि तस्मि समयंमि । पुव्वं भणिओऽणुमओय, होइ इसिभासितेसु जहा ॥६॥" ॥२०॥ Jain Educat i onal For Private & Personel Use Only Taw .jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy