SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ यथा स्वभावेनैव स्वेदादिरहितम् एवं प्रक्षेपाहाररहितमिति । एतच्चाप्रमाणकत्वादपकर्णनीयम् । अपि च केवलोत्पत्तेः प्राग्भुक्तरभ्युपगमात्केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपस्कार्य, अथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितत्वाभ्युपगमकमात्र एवेति । तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः संभवादौदारिकशरीरस्थितेश्च यथायुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्त्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति वेदनीयोदये सतीयं च सामग्री सर्वाऽपि भगवति केवलिनि संभवति तत्किमर्थमसौ न भुङ्क्त इति?। न च घातिचतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्येत, तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समयम् , उत्कृष्टतः समयत्रयम् । भवस्थकेवली समुद्घातावस्थः समयत्रयमनाहारकः ।। शैलेश्यवस्थायां त्वन्तर्मुहूर्त सिद्धास्तु सादिकमपर्यन्तमनाहारका इति स्थितम् । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धतृतीयाहारपरिज्ञाध्ययने २७१ प्रतौ २१६।२१७ पत्रे ॥१७॥ । एते एव च स्त्रीणां मुक्तिं न मन्वते । तत्पूर्वोत्तरपक्षौतु इहैवाग्रे वक्ष्यमाणान्नन्दीविचारतरङ्गादवसेयौ ॥१८॥ ननु मूर्तामूर्तयोर्जीवकर्मणोः कथं सम्बन्धः येऽपि च क्षीरनीरसुवर्णमृत्तिकादयो दृष्टान्तास्तेऽपि वैधाध्यासिताः, तत्रोभयोमूतत्वात्, इयं हि शङ्का भूयसां चेतांसि मलिनयति । ततस्तदाशङ्कानिरासाय युक्तिसन्दर्भित आगमो लिख्यते in Educati o nal For Private Personel Use Only jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy