________________
विचार
रत्नाकर
एवमाहारोपि । यथा सिद्धिगतेयुपरतक्रियस्य ध्यानस्य चरमक्षणः कारणम् एवं सम्यक्त्वादिकमपीति । अनन्तवीर्यतापि तस्याहारग्रहणे सति न विरुद्धयते । यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्ति एवमाहारक्रियापि विरोधाभावात् ,न ह्यत्र बलवत्तरस्य वीर्यवतोऽल्पीयसी क्षुदिति । एवं व्यवस्थिते यत्किञ्चिदेतत् । अपि च-एकादशपरीषहा वेदनीयकृता जिने प्रादुष्षन्ति । अपरे त्वेकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्तिं साधयति । तथाहि-क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयानालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानदर्शनानि, इत्येते द्वाविंशतिः मुमुक्षूणां परिषोढव्याः परीषहाः । तेषां च मध्ये ज्ञानावरणीयोत्थौ प्रज्ञाज्ञानाख्यौ, दर्शनमो हनीयसंभवो दर्शनपरीषहो, अन्तरायोत्थोऽलाभपरीषहः, चारित्रमोहनीयसंभवास्त्वमी-नाग्न्यारतिस्त्रीनिषद्याsकोशयाच्यासत्कारपुरस्काराः, एते चैकादशापि जिने केवलिनि न संभवन्ति । तत्कारणानां कर्मणामपगतत्वात्,न हि कारणाभावे कचित्कार्योत्पत्तिः, शेषास्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात् । ते चामी-क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एते च वेदनीयप्रभवास्तत्र केव लिनि विद्यन्ते । न च निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते; अतः केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते । केवलमसावनन्तवीर्यत्वान्न विह्वलीभवति । न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहते । न च शक्यते वक्तुम् एवंविधमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडया न बाध्यते आहारमन्तरेण च वर्त्तते,
Jain Education
i
n
For Private Personel Use Only
walmjainelibrary.org