SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ तयोरन्तर्मुहर्तकालेन परिवर्त्तमानत्वात्, यदपि कैश्चिदभिधीयते-विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एवेति । असावपि यदि स्यान्न नो बाधायै, केवलिनां भुक्तेरनिवारितत्वात्। यदप्युच्यते आहारविषयाकाङ्क्षारूपा क्षुद्भवति, अभिकाङ्क्षा चाहारपरिग्रहबुद्धिः, सा च मोहनीयविकारस्तस्य चापगतत्वात् केवलिनो न भुक्तिरिति । एतदप्यसमीचीनम् । यतो मोहनीयविपाका क्षुन्न भवति । तद्विपाकस्य प्रतिपक्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् । तथाहि-कषायाः प्रतिकूलभावनया निवर्तन्ते । तथा चोक्तम्- "उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चञ्जवभावेण, लोहं संतुट्टिए । जिणे ॥१॥” मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव । वेदोदयोऽपि विपरीतभावनया निवर्तते । तदुक्तम्-"काम! जानामि ते मूलं, सङ्कल्पात्किल जायसे । ततस्तं न करिष्यामि, ततो| मे न भविष्यसि ॥१॥" हास्यादिषट मपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्त्तते । क्षद्वेदनीयं तु रोगशी-1 तोष्णादिवज्जीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण विनिवर्त्तते अतो न मोहस्वभावा क्षुदिति । तदेवं व्यवस्थिते यत्कश्चिदाग्रहगृहीतैरभिधीयते यथा-"अपवर्त्तते कृतार्थ, नायुर्ज्ञानाद्यो न हीयन्ते। जगदुपकृतावनन्तं, वीर्य किं गततृषो भुक्तिः॥१॥"इति । तदेतत्प्लवते, यतश्छद्मस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुङ्क्ते ? तत्र समस्तवीर्यान्तरायक्षयाभावाद्भुक्तिसद्भावः इति चेत्तदयुक्तम् । यतः-किंतत्रायुष्कस्यापवर्तन स्यात् ? किं वा चतुर्णा ज्ञानानां काचिद्धानिः स्यात् ? येन भुक्तिः, इति । तस्माद्यथा दीर्घकालस्थितरायुष्कं कारणम् वि.र.४ Jain Educat i onal For Private & Personel Use Only Jaw.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy