SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ विचार- केवलिनः कावलिक आहारो बह्वपायत्वान्न कथश्चिद्घटते इति स्थितम्।अत्रोच्यते । तत्र यत्तावदुक्तं घातिकर्मक्षये। रत्नाकरः। केवलज्ञानोत्पत्तावनन्तवीर्यत्वान्न केवलिनो भुक्तिरिति । तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनम् । तथाहि-यदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवास्ते । किमिति शारीरी स्थितिः प्राक्तनी न भवति? प्रमाणं च-अस्ति केवलिनो भुक्तिः समग्रसामग्रीकत्वात्पूर्वभुक्तिवत् । सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं वेदनीयोदयः आहारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति । तानिच समस्तान्यपि केवलिनि सन्ति । यदपि दग्धरज्जुस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसङ्गतं च, आगमे ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि-यदि घातिकर्मक्षयाद् ज्ञानादयस्तस्याऽभूवन् वेदनीयोद्भवायाःक्षुधः किमायातं? येनाऽसौ न भवति । न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति । सातासातयोश्चान्तर्मुहूर्तपरिवर्त्तमानतया यथा सातोदय एवमसातोद्योऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव । न चाहारग्रहणे तस्य किञ्चित्क्षीयते, केवलमाहोपुरुषिकामात्रमेवेति । यदप्युच्यते वेदनीयस्योदीरणाया अभावात्पभूततरपुद्गलोदयाभावः, तदभावाचात्यन्तं वेदनीयपीडाऽभावः,इति वाङ्मात्रम्।तथाहि-अविरतसम्यग्दृष्टयादिष्वेकादशसु गुणस्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसंभवः किं तेषु प्राक्तनेभ्योऽधिकपीडासद्भाव ? इति । अपि च यो जिने सातोदयस्तीवः किमसौ प्रचुरपुद्गलोदये? नेत्यतो यत्किञ्चिदेतदिति । तदेवं सातोदयवसातोद्योऽप्यनिवारित इति, 等等路路路器樂泰泰然除餘番勝訴審審審審審審聯除器 ISRBrainelibrary.org in Edella For Private & Personal Use Only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy