SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ शद्रजातयस्त्रिवर्गप्रतिचारकास्तथा कृपणाः क्लीवा अकिञ्चित्कराः श्रमणा भवन्ति प्रव्रज्यां गृह गन्तीति । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धद्वितीयक्रियास्थानाख्याध्ययने २७१ प्रतौ २०४ पत्रे ॥१७॥ एतेन ये केचिज्जैनश्राद्धतया विदिता अपि मुनीनामाहारादि निषेधयन्ति, साधुतया विदिताश्च ये केचन तमुपदेशं ददति ते उभयेऽपि आगाढमिथ्यात्विनो द्रष्टव्याः। अपरे च केचन केवलिनामाहारमनागमिकमयौक्तिकं च मन्वते ततस्तदवबोधाय तत्र युक्त्यागमौलिख्यते "अंतोमुहत्तमद्धा, सेलेसीए भवे अणाहारो। सादीयमणिधणं पुण, सिद्धाणाहारगा होति ॥८॥""अंतोमुहुत्तमित्यादि । शैलेश्यवस्थाया आरभ्य सर्वथाऽनाहारकः सिद्धावस्थाप्राप्तावनन्तमपि कालं यावदिति । पूर्व तु कावलिकव्यतिरेकेण प्रतिसमयमाहारकः । कावलिकेन तु कादाचित्क इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तवीयत्वान्न भवत्येव कावलिकाहारः। तथाहि-आहारादाने यानि वेदनीयादीनि षद् कारणान्यभिहितानि तेषांमध्ये एकमपि न विद्यते केवलिनि, तत्कथमसावाहारं बहुदोषदुष्टं गृहणीयात् ? । तत्र न तावत्तस्य वेदनोत्पद्यते, तवेदनीयस्य दग्धरज्जुस्थानिकत्वात्सत्यामपि न तस्य तत्कृता पीडा, अनन्तवीर्यत्वात् । वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्यत्वे न संभाव्यते एवेति । र्यापथ:(थं) केवलज्ञानावरणपरिक्षयात् सम्यगवलोकयत्येवासौ। संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थत्वादनन्तवीर्यत्वान्नाहारग्रहणाय कारणीभवति । प्राणवृत्तिस्तु तस्यानपवर्तित्वादायुषोऽनन्तवीर्यत्वाच्चान्यथा सिद्धैव । धर्मचिंतावसरस्त्वपगतो निष्ठितार्थत्वात् । तदेवं| For Private Personel Use Only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy