________________
विचार
अदुवा णं अच्छराते आफालेत्ता भवइ । अदुवाणं फरुसं वइत्ता भवइ । कालेणवि से अणुपविठ्ठस्स असणं वा रत्नाकरः। पाणं वा जाव नो दवावेत्ता भवइ । जे इमे भवंति वोनमंता भारोकता अलसगा वसलगा किवणगा पव्वयंति" इति । वृत्तिर्यथा-सांप्रतं विपर्यस्तदृष्टयो गाढमिथ्यादृष्टयोऽभिधीयन्ते 'से एगइओ' इत्यादि । अथैककः कश्चिदभिगृहीतमिथ्यादृष्टिरभद्रकः साधुप्रत्यनीकतया श्रमणादीनां निर्गच्छतां प्रविशतां वा स्वतश्च निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति । एतदेव दर्शयति-अथवेत्ययमुत्तरापेक्षया पक्षान्तरोपग्रहार्थः । कचित्साधुदर्शने सति मिथ्यात्वोपहतदृष्टितया अपशकुनोऽयमित्येवं मन्यमानः । सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावज्ञयाऽप्सरायाः-चप्पुटिकाया आस्फालयिता भवति । अथवा तत्तिरस्कारमापादयन् परुषं वचो ब्रूयात् । तद्यथा-ओदन (उदर) मुंड! निरर्थककायक्लेशपरायणदुर्बुद्ध ! अपसराग्रतस्तदसौ भृकुटि वा विद्ध्यादसभ्यं वा ब्रूयात् । तथा भिक्षाकालेनापि से-तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु-पश्चात्पविष्टस्य सतोऽत्यन्तदुष्टतयाऽन्नादेनों दापयिता भवति, अपरं च दानोद्यतं निषेधयति । तत्प्रत्यनीकतयेतच ब्रूते-ये इमे पाखण्डिका भवन्ति ते एवंभूता भवन्तीत्याह-'वोण्णत्ति' तृणकाष्ठहारादिकं अधर्म कर्म, तद्विद्यते येषां ते तद्वन्तः। तथा भारेण कुटुम्बभारेण पोहलिकादिभारेण वाऽऽक्रान्ताः-पराभग्नाः सुखलिप्सवोऽलसा क्रमागतं कुटुम्बकं पालयितुमसमर्थास्ते पाखण्डव्रतमाश्रयन्ति । तथा चोक्तम्-"गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीवाः पाखण्डमाश्रिताः॥१॥” तथा-'वसलगा' इति, वृषला अधमाः
Jain Education intematon
For Private & Personel Use Only
R
ainelibrary.org