________________
मात्रा संयमयात्रामात्रा, यावत्याऽऽहारमात्रया संयमयात्रा भवति सा तथा तया संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा । तदपि बिलप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत् । इदमुक्तं भवति । यथा-अहिर्बिलं प्रविशंस्तूर्ण प्रविशति, एवं साधुनाप्याहारस्तत्वादमनास्वादयता शीघ्र प्रवेशयितव्य इति। यदिवा सर्पणेवाहारो लब्ध्वाऽनास्वादमभ्यवहार्यत इति । तदेव चाहारादिकं दर्शयितुमाह-अन्नं भक्तं अन्नकाले सूत्रार्थपौरुष्यनन्तरकाले, भिक्षाकाले प्राप्ते पुरःपश्चात्कर्मपरिहृतं भवति । यथोक्तभिक्षाटनेन ग्रहणकालावाप्तं भैक्ष्यं परिभोगकाले भुञ्जीत । तथा पानक पानकाले, नातितृषितो भुञ्जीत, नाऽप्यतिबुभुक्षितःपानकं पिबेदिति। वस्त्रं वस्त्रकाले गृहणीयादुपभोगं वा कुर्यात्। तथा लयनं-गुहादिकमाश्रयस्तस्य वर्षास्ववश्यमुपादानमन्यदा त्वनियमः। तथा शय्यतेऽस्मिन्निति शयनं संस्तारकः, स च शयनकाले । तत्राप्यगीतार्थानां प्रहरद्वयं निद्राविमोक्षो गीतार्थानां तु प्रहरमेकमिति । स भिक्षुराहारोपधिशयनस्वाध्यायध्यानादीनां मात्रां जानातीति तद्विधिज्ञः सन्नन्यतरां दिशं अनुदिशं वा प्रतिपन्नः समाश्रितो धर्ममाख्यापयेत्प्रतिपादयेत्, येन यद्विधेयं तद्यथायोगं विभजेत्, धर्मफलानि च कीर्तयेदाविर्भावयेत्,तच्च धर्मकर्मकथनं परहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेष्वनुपस्थितेषु वा कौतुकादिप्रवृत्तेषु शुश्रूषमाणेषु श्रोतुं प्रवृत्तेषु स्वपरहिताय प्रवेदयेदावेदयेत् । इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धप्रथमपुण्डरीकाध्ययने २७१ प्रती १९१ पत्रे ॥१६॥
यः साधूनामवज्ञाकारी भवति स आगाढमिथ्यादृष्टिरुच्यते, इत्यभिप्रायो लिख्यते‘से एगइओ समणं वा माहणं वा दिस्सा णाणाविधेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ।
ना मात्रां जानातीति HAMARो गीतार्थानां तु महरकाशमन्निति शयनं संस्तारकः,
Jain Educa
t
ional
For Private & Personel Use Only
Galww.jainelibrary.org