________________
विचार
| रत्नाकर
निमित्तबलात्सञ्जातेत्येवमवगन्तव्यम् । शोभननिमित्तप्रस्थितस्यापीतरनिमित्तबलात्कार्यव्याघात इति । तथा च श्रुतिः-किल बुद्धः स्खशिष्यानाहृयोक्तवान् यथा-द्वादशवार्षिकमत्र दुर्भिक्षं भविष्यत्यतो देशान्तराणि गच्छत यूयम् । ते च तद्वचनाद्गच्छन्तस्तेनैव प्रतिषिद्धाः। यथा-मा गच्छत यूयम् । इहायैव पुण्यवान् महासत्त्वः सञ्जातः, तत्प्रभावात्सुभिक्षं भविष्यति । तदेवमन्तरापरनिमित्तसद्भावान्न तयभिचारशङ्केति स्थितम् । इति श्रीसूत्रकृताङ्गप्रथमश्रुतस्कन्धे द्वादशे समवसरणाध्ययने २७१ प्रतौ १४७ पत्रे ॥१५॥
एतेन ये केचन वदन्ति शकुनादिनिमित्तमनैकान्तिकत्वाद्वयभिचारित्वाचान्वयव्यतिरेकाभ्यामप्रमाणमिति तेऽपि निरस्ता वेदितव्याः॥
केचिच्चाऽत्रामुद्राज्ञाननिद्रामुद्रितान्तःकरणाःखमतविशेषदर्शनाय च स्त्रीषु नाग्न्यमेव विशेषः, इति न्यायमङ्गीकृत्य यथोक्तावसरविधेयामपि वाङ्मात्रेण निद्रां निषिद्धय खपाण्डित्यं दर्शयन्ति । स च गृहज्वालनात्कीयुत्पादनमयमेव न्यायः, शास्त्रे निद्राकालस्याप्युक्तत्वात्, स चायं सूत्राभ्यां लिख्यते
"संजमजायामायावत्तियं बिलमिव पन्नगभूतणं अप्पाणेणं आहारं आहारेजा।अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणंलेणकाले,सयणं सयणकाले, से भिक्खू मायन्ने अन्नयरं दिसंअणुदिसं वा पडिवन्ने धम्म आइक्खे विभए कि उवट्टिएसु वा अणुवट्टिएसु वा सुस्सूसमाणेसु पवेदए ॥” इति । वृत्तिर्यथा-संयमयात्रायां
॥१६॥
Jain Education
a
l
For Private
Personel Use Only
Ho.jainelibrary.org