SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ तथाविधक्षयोपशमाभावेन तन्निमित्तज्ञानं विपर्यासं-व्यत्ययमेति । आर्हतानामपि निमित्तव्यभिचारः समुपल भ्यते, किं पुनरन्यतीर्थिकानां (स्तीथिकानाम् )। तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य ते अक्रियावादिनो विद्यासद्भावमनधीयमानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते 'आहंसु विजा परिमोक्खमेव' विद्यायाः-श्रुतस्य व्यभिचारेण तस्य परिमोक्षं-परित्यागमाहुरुक्तवन्तः । यदि वा क्रियाया अभावाद्विद्यया-ज्ञानेनैव मोक्षं सर्वकर्मच्युतिलक्षणमाहुरिति । कचिच्चरमपादस्यैवं पाठः-'जाणाम लोगंसि वयंति मंदात्ति' विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान्वयं जानीमः, एवं मन्दा-जडा वदन्ति । नच निमित्तस्य तथ्यता। तथाहि कस्यचित्क्वचिक्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात्,शकुनसद्भावेऽपि कार्यविघातदर्शनात् ,अतो निमितबलेनादेशविधायिनां मृषावाद एव केवलमिति । नैतदस्ति । नहि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति । यदपि षस्थानपतित्वमुद्देष्यते तदपि पुरुषाश्रितक्षयोपशमवशेन । नच प्रमाणाभासव्यभिचारे सम्यक्प्रमाणव्यभिचारशङ्का का युज्यते । तथाहि-मरुमरीचिकाजले (निचये) जलग्राहिप्रत्यक्षं व्यभिचरतीतिकृत्वा किं सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसङ्गतो भवति ?। नहि मशकवतिरग्निसिद्धावुपदिश्यमानाव्यभिचारिणीति सत्यधूमस्यापि व्यभिचारो । नहि सुविवेचितं कार्य कारणं व्यभिचरतीति । ततश्च प्रमातुरयमपराधो न प्रमाणस्य । एवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचारीति । यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शङ्कयते, सोऽनुपपन्नः। तथाहि-कार्याकूतात्क्षुतेपि गच्छतो या कार्यसिद्धिः साऽपान्तरालेतरशोभन JainEducatiotee For Private Personal Use Only Iw.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy