SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ विचार “संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उपाइयं च। अटुंगमेयं बहवे अहित्ता, लोगंसि जाणंति अणा- कारत्नाकर गयाइं॥९॥"संवत्सरंमित्यादि' सांवत्सरं ज्योतिष,स्वप्नप्रतिपादको ग्रन्थःस्वप्नस्तमधीत्य, लक्षणं श्रीवत्सादिकं, चशब्दादान्तरबाह्यभेदभिन्नं, निमित्तं वाक्प्रशस्तशकुनादिकम्, देहे भवं दैहंमषतिलकादिकम्, उत्पाते भवमौत्पातिकमुल्कापातदिग्दाहनिर्घातभूमिकंपादिकम् , तथाऽष्टाङ्गं च निमित्तमधीत्य । तद्यथा-भौममुत्पातं स्वप्नं आन्तरिक्षं आझं खरं लक्षणं व्यञ्जनं इत्येवंरूपं नवमपूर्वतृतीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽस्मिन्नतीतानि वस्तूनि अनागतानि च जानन्ति परिच्छिदन्ति । न च शून्यादिवादेष्वेतद्घटते, तस्मादप्रमाणमेव तैरभिधीयते, इत्येवं व्याख्याते सति आह परः-ननु व्यभिचार्यपि श्रुतमुपलभ्यते । तथाहि-चतुर्दशपूर्वविदामपि षस्थानपतित्वमागम उद्देष्यते, किं पुनरष्टाङ्गनिमित्तशास्त्रविदाम् । अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छंदसार्द्धत्रयोदशशतानि सूत्रम् , तावन्त्येव सहस्राणि वृत्तिः, तावत्प्रमाणलक्षा परिभाषेति । अङ्गस्या त्रयोदशसहस्राणि सूत्रम् , तावत्परिमाणलक्षा वृत्तिः, अपरिमितं वार्तिकमिति ॥९॥ तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतित्वेन व्यभिचारित्वमत इदगाह-"केई निमित्ता तहिया भवंति, केसिंच तं विप्पडिएति णाणं। ते विजभावं अणहिजमाणा, आसु विजापरिमोक्खमेव । (जाणाम लोगंसि वयंति मंदा)॥१०॥” केई णिमित्ता इत्यादि' छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः कानिचिन्निमित्तानि तथ्यानि सत्यानि भवन्ति । केषाञ्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्या in Education For Private Personel Use Only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy