________________
मावस्य सामान्याधिकरण्यातानां परस्परसव्यपेक्षाणावत्वे सति समुदित
भवति अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात् । तथा विनयवाद्यपि विनयादेव केवलाद् ज्ञानक्रियासाध्यां सिद्धिमिच्छन्नपकर्णयितव्यः । तदेवं विपरीता
ाभिधायितयैते मिथ्यादृष्टयोऽवगन्तव्याः । ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तः,तत्कथमिह सम्यग्दृष्टित्वेनोच्यत इति, उच्यते, स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वस्तथा काल एवैकः सर्वस्यास्य जगतः कारणम् तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपरनिरपेक्षतर्यकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम् । तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीवस्य सामान्याधिकरण्याद्यदस्ति तज्जीव इत्येवं प्राप्तमतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितम् । तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणादिह सम्यक्त्वमभिहितमिति । ननु च कथं कालादीनां प्रत्येक निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदिते सम्यक्त्वसद्भावः?, न हि यत्प्रत्येकं नास्ति तत्समुदाये भवितुमर्हति, सिकतातैलवत् । नैतदस्ति । प्रत्येकं पद्मरागादिमणिष्वविद्यमानापि रत्नावली समुदाये भवन्ती दृष्टा । न हि दृष्टेऽनुपपन्नं नामेति यत्किञ्चिदेतत् । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धद्वादशाध्ययने २७१ प्रतौ १३४ पत्रे ॥१४॥
अत्र केषाञ्चिदन्यदर्शनिनामपि ज्योतिर्निमित्तशकुनादिभिर्भाविवस्तुसंवादीनि ज्ञानान्यालोक्याविदितपरमार्थैरहो एतेऽप्यतिशयवन्तः प्रशस्या इति व्यामोहो न विधेयः। तेषां तद्गतानामपि ज्योतिर्निमित्तादिज्ञानानां पूर्वान्तःपातित्वेन गणधरप्रणीतत्वात् । तत्र चागमः
Inn Educa
For Private
Personal Use Only