SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकर ॥१४॥ ष्णववनस्पतिपुष्पफलादिषु चेति । तथा चोक्तम्-"काल: पचति भूतानि, कालः संहरते प्रजाः। काल: सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः॥१॥” तथाऽस्ति खभावोऽपि कारणत्वेनाशेषस्य जगतः स्वो भावः स्वभाव इति कृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्त्तत्वामूर्त्तत्वानां स्वस्वरूपानुविधानात् । तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरत्वापरत्वादिस्वरूपापादनादिति । तथाचोक्तम्-'क कण्टकानां' इत्यादि । तथा नियतिरपि कारणत्वेनाश्रीयते । तथा पदार्थानां नियतेरेव निष्पन्नत्वात् । तथाचोक्तम्-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥” तथा पुराकृतं तच्च शुभाशुभमिष्टानिष्टफलकारणम् । तथा चोक्तम्-“यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्त्तते ॥१॥” तथा-"स्वकर्मणा युक्त एव, सर्वो ह्यत्पद्यते जनः। स तथा कृष्यते तेन, न यथा स्वयमिच्छति ॥२॥” इत्यादि । तथा पुरुषकारोऽपि कारणं, यस्मान्न पुरुषकारमन्तरेण किञ्चित्सिध्यति। तथा चोक्तम्-"न दैवमिति सञ्चिन्त्य, त्यजेदुद्योगमात्मनः । अनुद्यमेन कस्तैलं, तिलेभ्यःप्राप्तुमर्हति? ॥१॥” तथा-"उद्यमाचारुचित्राङ्गि, नरो भद्राणि पश्यति । उद्यमात्कृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ॥ २॥” तदेवं सर्वानपि कालादीन कारणत्वेनाभ्युपगच्छंस्तथाऽऽत्मपुण्यपापपरलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः। शेषकास्तु वादा अक्रियावादाज्ञानवावैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि-अक्रियावादी अत्यन्तनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपलवन्मिथ्यादृष्टिरेव in Educhlani For Private & Personal Use Only Mainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy