________________
भावसद्भावादवगंतव्यः, तथा भवस्थकेवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावसद्भावाद्विज्ञेय इति । चतुष्कसंयोगोपि क्षायिकसम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात् , तथापशमिकसम्यग्दृष्टीनामौदयिकौपशमिकक्षायोपशमिकपारिणामिकभावसद्भावाचेति । पञ्चकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपञ्चकसद्भावाद्विज्ञेय इति । तदेवं भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात्संभविनः सान्निपातिकभेदाः षड् भवन्ति। एत एव त्रिकसंयोगचतुष्कसंयोगगतिभेदात् पञ्चदशधा प्रदेशान्तरेऽभिहिताः। इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धद्वादशसमवसरणाध्ययननियुक्तिगाथा २७१ प्रती १२७ पत्रे॥१॥
अत्र केचित्कठिनहठाःप्राक्कृतकमैकग्राधान्यवादिनः केचिञ्चोद्यमप्राधान्यकवादिन एवं कालादिप्राधान्यवादिनोऽपि, तचासत् । जैनसिद्धान्तवेदिभिस्तु समुदाय एव प्राधान्येन वाच्य इत्यर्थसूचको विचारो लिख्यते
इदानीं तेषां सम्यग्मिथ्यावादित्वं विभागेन यथा भवति तथा दर्शयितुमाह-"सम्मद्दिट्टी किरियावादी मिच्छा य सेसगा वादी । जहिऊण मिच्छवायं, सेवह वायं इमं सच्चं ॥६॥” 'सम्मद्दिट्टीत्यादि' सम्यगविपरीता दृष्टिदर्शनं पदार्थपरिच्छित्तिर्यस्याऽसौ सम्यग्दृष्टिः । कोऽसावित्याह-क्रियामस्तीत्येवंभूतां वदितुं शीलमस्येति क्रियावादी । अत्र क्रियावादीत्येतत् 'अत्थित्ति किरियवादी' इत्यनेन प्राक्पसाधितं सदनूद्य सम्यग्दृष्टित्वं विधीयते, तस्यासिद्धत्वादिति । तथाहि-अस्ति लोकालोकविभागः। अस्त्यात्मा । अस्ति पुण्यपापविभागः । अस्ति तत्फलं खर्गनरकावाप्तिलक्षणम् । अस्ति कालः कारणत्वेनाऽशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतो
म्यग्दृष्टिः वह वायं इमं सर्चमा दर्शयितुमाह
Jain Education S
tional
For Private & Personal Use Only
Bw.jainelibrary.org