SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विचार रत्नकरः। ॥१३॥ रणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभावं ब्रजति मुनिगणः कूपवप्रादिकार्ये ॥१॥” तदेवमुभययापि भाषिते रजसः-कर्मण आयो लाभो भवति अतस्तमायं रजसो मौनेनानवद्यभाषणेन वा हित्वा-त्यक्त्वा तेऽनवद्यभाषिणो निर्वाणं-मोक्ष प्राप्नुवन्ति ॥२१॥ इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धैकादशमोक्षमार्गाध्ययने २७१ प्रतौ१२४ पत्रे ॥१२॥ __औयिकादिभावस्वरूपं जिज्ञासया लिख्यते "भावसमोसरणं पुण,णायव्वं छव्विहंमि भावंमि। अहवा किरिय अकिरिया, अण्णाणी चेव वेणइया॥२॥" 'भावसमोसरणमित्यादि' भावानामौदयिकादीनां समवसरणमेकत्र मेलापको भावसमवसरणम् । तत्रौदयिको भाव एकविंशतिभेदः। तद्यथा-गतिश्चतुर्धा, कषायाश्चतुर्विधाः, एवं लिङ्ग त्रिविधम् , मिथ्यात्वाज्ञानासंयतत्वासिद्धत्वानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन षडिधा भवन्ति । औपशमिको द्विविधः, सम्यक्त्वचारित्रोपशमभेदात् राक्षायोपशमिकोऽष्टादशभेदः। तद्यथा-ज्ञानं मतिश्रुतावधिमनःपर्यायभेदाच्चतुर्विधम् । अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदात्त्रिविधम् , दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्त्रिविधम् लब्धिः दानलाभभोगोपभोग वीर्यभेदात्पञ्चधा, सम्यक्त्वचारित्रसंयमासंयमाः प्रत्येकमेकैकप्रकारा इति ३३क्षायिको नवप्रकारः। तद्यथा-केवलज्ञानं केवलदर्शनं दानादिलब्धयः पञ्च सम्यक्त्वं चारित्रं चेति ४।जीवत्वभव्यत्वाभव्यत्वभेदात्पारिणामिकस्त्रिविधः ५सान्निपातिकस्तु द्वित्रिचतुःपञ्चकसंयोगैर्भवति। तत्र द्विकसंयोगः सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्भावाद्वगन्तव्यः । त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्टयविरतविरतानामौयिकक्षायोपशमिकपारिणामिक ॥ in Education ! For Private & Personel Use Only Hainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy