SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ साधूनां केनचिद्विप्रादिना वापीकूपसत्रादिषु पुण्यं न वेति पृष्टे सति तैर्यत्कार्य तद‌भिधायिन्यौ सूत्रगाथे * लिख्यते "जे अ दाणं पसंसंति, वहमिच्छंति पाणिणं । जे अ णं पडिसेहंति, वित्तिच्छेयं करंति ते ॥ २० ॥" जे अदाणमित्यादि' ये केचन प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीतिकृत्वा प्रशंसन्ति श्लाघन्ते, ते परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण वधं प्राणातिपातमिच्छन्ति । तद्दानस्य प्राणातिपातमन्तरेणानुपपत्तेः । येऽपि च किल सूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञाः प्रतिषेधयन्ति-निषेधयंति, तेऽप्यगीतार्थाः प्राणिनां वृत्तिच्छेदं वर्त्तनोपायविघ्नं कुर्वन्तीति ॥ २० ॥ तदेवं राज्ञा अन्येन वेश्वरेण कूपतडागयाग सत्रदानाद्युद्यतेन पुण्य - सद्भावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाह - "दुहओवि ते ण भासंति, अस्थि वा नत्थि वा पुणो । आयं रयस्स हेच्चा णं, निव्वाणं पाउणति ते ॥२१॥" 'दुहओवीत्यादि' यद्यस्ति पुण्यमित्येवमूचुः ततोऽनन्तानां सत्त्वानां सूक्ष्माणां बादराणां सर्वदा प्राणत्याग एव स्यात् । प्रीणनमात्रं तु पुनः स्वल्पानां स्वल्पकालीयमतोऽस्तीति न वक्तव्यम् । नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदर्थिनामन्तरायः स्यादित्यतो द्विधाप्यस्ति नास्ति वा पुण्यमित्येवं ते मुमुक्षवः ॐ साधवः पुनर्न भाषन्ते, किं तु पृष्टैः सद्भिर्मोन समाश्रयणीयम् । निर्बन्धे त्वस्माकं द्विचत्वारिंशदोषवर्जित आ हारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति उक्तंच - "सत्यं वप्रेषु शीतं शशिकरधवलं ॐ वारि पीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकि Jain Educamational For Private & Personal Use Only ***** www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy