________________
विचार
१२॥
अथ केचिदनध्यक्षमिति पृथिव्यादिजीवत्वं प्रति विप्रतिपद्यन्ते वदन्ति च । नास्माकमागमःप्रमाणम् , केवलं रत्नाकार। युक्तिप्रिया हि वयम् । ततस्तान् प्रति युक्तिसन्दर्भित आगमो लिख्यते- . । यथा-" सव्वाहि अणुजुतीहिं, मइमं पडिलेहिआ। सव्वे अकंतदुक्खाय, अतो सब्वे ने हिंसया ॥९॥"
सव्वाहिति' सर्वा याः काश्चनाऽनुरूपाः पृथिव्यादिजीवसाधनत्वेऽनुकूला युक्तयः साधनानि । यदि वासिद्धविरुद्धानकान्तिकपरिहारेण पक्षधर्मत्वसपक्षसत्वविपक्षव्यावृत्तिरूपतया युक्तिसङ्गता युक्तयोऽनुयुक्तयस्ताभिरनुयुक्तिभिर्मतिमान् सदसद्विवेकी पृथिव्यादिजीवनिकायान् प्रत्युपेक्ष्य पर्यालोच्य जीवत्वेन प्रसाध्य तथा सर्वेपि । प्राणिनोऽकान्तदुःखा दुःखाद्विषः सुखलिप्सवश्च मत्वाऽतो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः सङ्क्षपणेमाः। सात्मिका पृथिवी तदात्मनां विद्रुमलवणोपलादीनां समानजातीयाङ्करसद्भावादर्शोविकारांकुरवत् । तथा सचेतनमम्भो भूमिखननादाविष्कृतस्वभावसंभवाद्दरवत् । तथा सात्मकं तेजस्तद्योग्याहारवृद्धयावृद्धयुपलब्धेर्वालवत् । तथा सात्मको वायुः अपरप्रेरितनियततिरश्चीनगतिमत्त्वाद्गोवत् । तथा सचेतना | वनस्पतयः जन्मजरामरणरोगशोकादीनां समुदितानां सद्भावात् स्त्रीवत् । तथा क्षतसंरोहणाहारोपादानदीहृदसद्भावसङ्कोचसायाहस्वापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः । द्वीन्द्रियादीनां तु पुनः कृम्यादीनां स्पष्टमेव चैतन्यम् । तद्धेदनाश्चोपक्रमिकाः स्वाभाविकाश्च समुपलभ्यमाना मनोवाकायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पीडाकारिण उपमर्दान्निवर्तितव्यम् । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धैकादशमोक्ष-17 मार्गाध्ययने २७१ प्रतौ १२२ पत्रे ॥११॥
Jain Education
national
For Private & Personel Use Only
delw.jainelibrary.org