________________
केचिदिह कुमतितमस्विनीयक्त्यमुक्त्यध्वानः प्रतिपदमागमोक्तमपि योगोद्वहनमस्वीकुर्वाणाः सिद्धान्तपदान्यगारिणामगणिताशातनाः पाठयन्ति । ते च संसारं पल्लवयन्ति सिद्धान्तनिषिद्धत्वात् । निषेधश्चैतद्गाथातात्पविगमगम्यः, सा चेयम्
"गिहे दीवमपासंता, पुरिसादाणिया नरा । ते वीरा बंधणुम्मुक्का, नावखंति जीवियं ॥३४॥" 'गिहे दीवं' इत्यादि, गृहे गृहवासे गृहपाशे वा गृहस्थभाव इति यावत्, 'दीवंति' दीपी दीप्ती, दीपयति प्रकाशयतीति दीपः, स च भावदीपः श्रुतज्ञानलाभः, यदि वा द्वीपः समुद्रादौ प्राणिनामावासभूतः, स च भावद्वीपः संसारसमुद्रे सर्वज्ञोक्तचारित्रलाभस्तदेवंभूतं दीपं द्वीपं वा गृहस्थभावेऽपश्यन्त अप्राप्नुवन्तः सन्तः सम्यक प्रव्रज्योत्थानेनोत्थिता उत्तरोत्तरगुणलाभेनैवंभूता भवन्तीति दर्शयति-नराः पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य नरोपादनमन्यथा स्त्रीणामप्येतद्गणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति । मुमुक्षूणां पुरुषाणां आदानीया आश्रयणीयाः पुरुषादानीया (महतोऽपि ) महीयांसो भवन्ति, यदि वा आदानीयो हितैषिणां मोक्षस्तन्मार्गों वा सम्यग्दर्शनादिकः पुरुषाणां मनुष्याणामादानीयः, स विद्यते येषामिति विगृह्य मत्त्वर्थीयोऽर्श आदिभ्योऽजिति। तथा ये एवंभूतास्ते विशेषेणेरयंत्यष्टप्रकारं कर्मेति वीरास्तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत्प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो जीवितमसंयमजीवितं प्राणधारणं वा नाभिकाङ्क्षन्ति नाभिलषन्ति । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमधर्माध्ययनप्रान्ते २७२ प्रती १११ पत्रे ॥१०॥
-
Jain Educa
t
ional
For Private & Personel Use Only
Hiww.jainelibrary.org
-