SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकर manan e समुच्चये, तदेतत्सर्व विद्वान् पण्डितः कर्मोपादानकारणत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । इति श्रीसूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमधर्माध्ययने २७१ प्रती १०२ पत्रे ॥८॥ ___केचिदविदितपरमार्थाः “पाडिहारियपीढफलग” इत्यादि दर्शयन्तो गृहस्थवस्त्रव्यापारणं स्वीकुर्वतेतच्चासङ्गतम्। येन 'पाडिहारिय' इति, प्रतिगृहीतत्वेन पीठफलकादिविशेषणं मन्तव्यम् । तथैव च ग्रहस्थवस्त्रपात्रभोगनिषेधः श्रूयते सिद्धान्ते, स चायम् “परमत्ते अन्नपाणं न भुंजेज कयाइ वि । परवत्थं अचेलो वि, तं विजं परिजाणिया ॥२०॥" "परमत्ते" इत्यादि, परस्य गृहस्थस्यामत्रं भाजनं परामत्रम्, तत्र पुरस्कर्मपश्चात्कर्मभयात् (तद्भयात्) हृतनष्टादिदोषसम्भवाच्चान्नं पानं च मुनिर्न कदाचिदपि भुञ्जीत, यदि वा पतद्ग्रहधारिणश्छिद्रपाणेः पाणिपात्रं परपात्रम्, यदि वा पाणिपात्रस्याच्छिद्रपाणेर्जिनकाल्पकादेः पतद्ग्रहः परपात्रं तत्र संयमविराधनाभयान्न भुञ्जीत। तथा परस्य गृहस्थस्य वस्त्रं परवस्त्रम्, तत्साधुरचेलोऽपि सन् पश्चात्कर्मादिदोषभयात् हृतनष्टादिदोषसंभवाच न विभृयात्, यदि वा जिनकल्पिकोऽचेलो भूत्वा सर्वमपि वस्त्रं परवस्त्रमिति कृत्वा न विभृयात् । तदेतत्सर्व परपात्रभोजनादिकं संयमविराधकत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमाध्ययने २७१ प्रती १०२ पत्रे ॥९॥ एतेन प्रतिग्रामं ये गृहस्थस्य घटादिपात्रं व्यापारयन्ति, ते निरस्ता द्रष्टव्याः॥ minismakar N EWS Jain Education minutational For Private & Personel Use Only ww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy