SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ “णिक्खम्म दीण परभोयणमि, मुहमंगलिए उदराणुगिद्धे । नीवारगिद्धे व महावराहे, अदूरए एहति घातमेव ॥ २५॥" यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्क्रान्तो निष्क्रम्य च परभोजने पराहारविषये दीनो दैन्यमुपगतो जिह्वेन्द्रियवशादातो बन्दिवन्मुखमाङ्गलिको भवति, मुखेन मङ्गलानि प्रशंसावाक्यानीदृशस्तादृशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति। यदुक्तम्-“सो एसो जस्स गुणा, विअरंतनिवारिया दसदिसासु। इहरा कहासु सुचसि, पच्चक्खं अज्ज दिट्ठोसि ॥१॥” इत्येवमौदर्य प्रतिगृद्धोऽध्युपपन्नः किमिव ? नीवारः शूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध आसक्तमना गृहीत्वा च स्वयूथं महावराहो महाकायः शूकरः, स चाहारमात्रगृद्धोतिसङ्कटे प्रविष्टः सन्नदूर एव शीघ्रमेव घातं विनाशमेष्यति प्राप्स्यति । एवकारोऽवधारणे। अवश्यं तस्य विनाश एव नापरा गतिरस्तीति। एवमसावपि कुशील आहारमात्रगृद्धःसंसारोदरे पौनःपुन्येन विनाशमेवैति। इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धकशीलपरिभाषानाम्नि सप्तमाध्ययने २७१ प्रतौ ९७ पत्रे ॥७॥ साधूनां परस्परक्रिया "अहं त्वदीयं पात्रं सज्जीकरोमि, त्वं मदीयं वस्त्रं सज्जीकुरु" इत्यादिरूपा न कल्पते इत्यादिप्रतिपादनपरा गाथा लिख्यते __“पाणहाउ य छत्तं च, णालीयं वालवीयणं । परकिरियं अन्नमन्नं च तं विजं परिजाणिया ॥१८॥" का उपानही काष्ठपादुके च, तथा तापादिनिवारणाय छत्रं, तथा नालिका द्यूतक्रीडाविशेषस्तथा वालैर्मयूरपिच्छैर्वा व्यजनकं, तथा परेषां सम्बन्धिी क्रियामन्योन्यं परस्परतोऽन्यनिष्पाद्यामन्यः करोत्यपरनिष्पाद्यां चापर इति, चः| Jain Education For Private & Personel Use Only Malainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy