SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ विचार ॥ १० ॥ Jain Education धरादय आहुः । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धकुशीलपरिभाषानाम्नि सप्तमाध्ययने २७१ प्रतौ ९६ पत्रे ॥ ५ ॥ परिणतपत्रफल शाकाद्यादरणे तु तत्तत्कालीन संविग्नगीतार्थाचारणैव प्रमाणं, परं सर्वथा निषिद्धत्वं तु न संभाव्यते, यतोऽत्र तात्पर्यतोऽपरिणतानामेव निषेधस्य टीकाकारव्याख्यातत्वात् । सा गाथा चेयम् "कम्मं परिन्नाय दांसि धीरे, विअडण जीविज्जइ आदिमोक्खं । से बीअकंदाइ अभुंजमाणे, विरए सिणाणाइसु इत्थिआसु ॥ २२॥” “कम्मं परिन्नाय" इत्यादि, धिया राजत इति धीरो बुद्धिमान् 'दगंसि त्ति' उदकसमारम्भे सति | कर्मबन्धो भवतीति परिज्ञाय किं कुर्यादित्याह - विकटेन प्रासुकोदकेन सौवीरादिना जीव्यात्प्राणधारणं कुर्यात् । च शब्दादन्येनाप्याहारेण प्राशुकेनैव प्राणवृत्तिं कुर्यात् । आदिः संसारस्तस्मान्मोक्ष आदिमोक्षः संसारविमुक्ति यावदिति, धर्मकारणानां वादिभूतं शरीरं तद्विमुक्तिं यावत्, यावज्जीवमित्यर्थः । किं चासौ साधुर्बीजकन्दा| दीनभुञ्जानः । आदिग्रहणान्मूलपत्रफलादीनि गृह्यन्ते, एतान्यप्यपरिणतानि परिहरन् विरतो भवति । कुतः ? | इति दर्शयति-स्नानाभ्यङ्गोद्वर्त्तनादिक्रियासु निःप्रतिकर्मशरीरतयाऽन्यासु च चिकित्सा दिक्रियासु न वर्त्तते, तथा स्त्रीषु च विरतः । वस्तिनिरोधग्रहणादन्येऽप्याश्रवा गृह्यन्ते । यश्चैवंभूतः सर्वेभ्योऽप्याश्रवद्वारेभ्यो विरतो नासौ कुशील दोषैर्युज्यते, तदयोगाच्च न संसारं वम्भ्रमीति । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धकुं शीलपरिभाषानाम्नि | सप्तमाध्ययने २७१ प्रतौ ९६ पत्रे ॥ ६ ॥ मुनीनामाहाराद्यर्थे गृहस्थप्रशंसनं परमापायकारणमिति जिज्ञापयिषया लिख्यते For Private & Personal Use Only रत्नाकरः । ॥ १० ॥ jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy