SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ तिकसंसारमापन्ना अरघघटीयन्त्रन्यायेन संसारसागरं पर्यटन्तः परं परं प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति । जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपहता अपरं बध्नन्ति वेदयन्ति च, दुष्टं नीतानि दुर्नीतानि दुष्कृतानि । न हि वकृतस्य कर्मणो विनाशोऽस्तीति भावः। तदुक्तम्-"मा होहि रे विसनो, जीव तुमं विमगदुम्मणो दीगो । णहु चिंतिएण फिइ, तं दुक्खं जं पुरा रइयं ॥१॥जइ पविससि पायालं, अडविं व दार गुहं समुदं वा । पुवकयाओ न चुक्कसि, अप्पाणं घाइसे जइ वि ॥२॥” एवं तावदोवतः कुशीलाः प्रतिपादिताः। इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धसप्तमकुशीलाध्ययने २७१ प्रतौ ९२ पत्रे ॥४॥ . सन्निधिदोषदुष्टस्य लातुर्वस्त्रविभूषणप्रक्षालनादिकारिणश्च दूरे संयम इत्यर्थप्रतिपादनपरा सार्या सूत्रगाथा लिख्यते| "जे धम्मलद्धं विनिहाय भुंजे, वियडेण साह यजे सिणाइ।जोधावई लूसई य वत्ध,अथाहु से नागणियस्स दूरे ॥२२॥” ये केचन शीतलविहारिणो धर्मेण सुधिकया लब्धं धर्मलब्धमौदेशिकक्रीतकृतादिदोषरहितभित्यर्थः । तदेवंभूतमप्याहारजातं निधाय व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जते। तथा ये विकटेन प्रासुकोकेनापि सङ्कोच्याङ्गानि प्रामुक एव प्रदेशे देशसर्वलानं कुर्वन्ति । तथा यो वस्त्रं धावति प्रक्षालयति तथा लूषयति शोभार्थम् । दीर्घ सत्पाकाटयित्वा हस्वं करोति हस्व वा सन्धाय दीर्घ करोति, एवं लूषयति । तदेवं स्वार्थ परार्थ वा यो वस्त्रं लूषयति ।। अथासौ " नागणियस्स ति" निग्रन्थभावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थकरगण Jain Educat ional For Private Personal use only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy