SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ विचार ४९ ॥ महाभितापेऽतिसन्तापोपेते ते नारकाः स्वकर्मावबद्धास्तत्रैवंभूते नरके दुरूपभक्षिणोऽशुच्यादिभक्षकाः प्रभूतं कालं | यावतिष्ठन्ति । तथा कृमिभिर्नरकपालापादितैः परस्परकृतैश्च स्वकर्मोपगताः स्वकर्मढौकितास्तुद्यन्ते व्यथयन्त इति । तथा चागमः- “ छट्ठीसत्तमीसु णं पुढवीसु नेरइया पहू महंताई लोहिय कुंथुवाई विउच्चित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अणुघायमाणा अणुघायमाणा चिठ्ठति ” । इति सूत्रकृताङ्गप्रथम श्रुतस्कन्धे निरयविभत्तिनामपञ्चमाध्ययनप्रथमोद्देशे २७१ प्रतौ ७७ पत्रे ॥ ३ ॥ न च परभवकृतमेव कर्मात्र भुज्यते, अत्र कृतं परत्रैव भोक्तव्यमिति निर्भीकता । नापि च- ' अत्युग्रपाप| पुण्यानामिहैव फलमाप्यते' इदं लौकिकमेव, आगमेऽप्यस्य श्रूयमाणत्वात् । स चायम् " असि च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते, बंधति वेयंति य दुन्नियाई ॥ ४ ॥” "अस्सि च' इत्यादि, यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्मविपाकं ददति । एकस्मिन्नेव जन्मनि विपाकं तीव्रं ददति, शताग्रशो वेति बहुषु जन्मसु । येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते तथाऽन्यथा वेति, इदमुक्तं भवति, किञ्चित्कर्म तद्भव एव विपाकं ददाति किञ्चिज्जन्मान्तरे, यथा मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुताङ्गश्रुतस्कन्धे कथित| मिति । दीर्घकालस्थितिकं परजन्मान्तरकृतं वेद्यते, येन प्रकारेण सकृत्तथैवाऽनेकशो वा । यदि वान्धेन प्रकारेण | सकृत्सहस्रशो वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति । तदेवं ते कुशीला आयतदण्डाश्चतुर्ग Jain Education International For Private & Personal Use Only रत्नाकरः । ॥९॥ >w.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy