SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Jain Education Int पतित्वमुदूधुष्यते, बाढं विद्यन्ते यतोऽभिहितम् " पष्णवणिज्जा भावा, अनंतभागो उ अणभिलप्पाणं । पण्ण| वणिज्जाणं पुण, अनंत भागो सुयनिबद्धो ॥ १ ॥” इति श्रीसूत्रकृताङ्गप्रथम श्रुतस्कन्धप्रथमाध्ययने २७१ प्रतौ ५ पत्रे ॥ १ ॥ अधिकरणकारि वचनं वदतः साघोर्भूयसी हानिभवतीति यतिजन जिज्ञापयिषया लिख्यते " अहिगरणकडरस भिक्खुणो, वयमाणरस पसज्ज दारुणं । अट्ठे परिहायइ बहु, अहिगरणं न करेज्ज पंडिए ॥ १९ ॥" 'अहिगरण' इत्यादि, अधिकरणं कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरस्तस्यैवंभूतस्य भिक्षोस्तथा|धिकरणकरीं दारुणां वा भयानकां प्रसह्य प्रकटमेव वाचं ब्रुवतः सतोऽर्थो मोक्षस्तत्कारणभूतो वा संयमः स बहुः | परिहीयते ध्वंसमुपयाति इदमुक्तं भवति, बहुना कालेन यदर्जितं विकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनीं वाचं ब्रुवतस्तत्क्षणमेव ध्वंसमुपयाति । तथा हि-"जं अज्जियं समीखल्लएहिं तवनियमबंभमईएहिं । मा हु तयं छड्डेहह, कलहंता सागपत्तेहिं ॥ १ ॥" इत्येवं मत्वा मनागप्यधिकरणं न कुर्यात्पण्डितः सदसद्विवेकी । | इति सूत्रकृताङ्गाद्यश्रुतरकन्ध द्वितीय वैतालीयाध्ययने द्वितीयोदेशकवृत्तौ २७१ प्रतौ ४२ पत्रे ॥ २ ॥ दुःकर्मवशतो नारका अशुच्यादिविरूपमाहारमाहारयन्तीति जिज्ञासया लिख्यते “ ते हम्ममाणा णरगे पडंति, पुन्ने दुरुबस्स महाभितावे । ते तत्थ चिठ्ठति दुख्वभक्खी, तुहंति कम्मोवगया किमीहिं ॥ २० ॥" ते वराका नारका हन्यमानास्ताड्यमाना नरकपालेभ्यो नष्टा अन्यस्मिन् घोरतरे नरकैकदेशे | पतन्ति गच्छन्ति । किंभूते नरके ? पूर्णे भृते, दुष्टं रूपं यस्य तंदुरूपम् विष्ठाऽसृग्मांसादिकमलं तस्य भृते । तथा For Private & Personal Use Only Phelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy