SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ८ ॥ Jain Educatio ॥ अथ द्वितीयस्तरङ्गः ॥ अनन्तचैतन्य विकासनाय, सर्वज्ञलक्ष्मीकनकासनाय । कृतान्यतीर्थोन्नतिनाशनाय, नमो नमः श्रीजिनशासनाय ॥ १ ॥ अथ क्रमायाताः श्रीसूत्रकृताङ्गविचारा लिख्यन्ते— इह हि केचिद्सद्ग्रहग्रस्तहृदयाः प्रतिपद्मालोक्यमानश्रीजिनप्रतिमाक्षर भीरवः सूत्रसूचितार्थसार्थसमर्थितान्यपि प्रकरणसिद्धान्तविवरणानि न स्वीकुर्वते, न च ते विदन्ति सिद्धान्तार्था एवैते । तत्र चागमो लिख्यते"सुतेण सूचियं चिय, अत्था तह सूचिया य जुत्ता य। तो बहुविहप्पउत्ता, एया पसिद्धा अणादीया ॥ २१ ॥” निर्युक्तिगाथा । वृत्तिर्यथा - अर्थस्य सूचनात्सूत्रम् तेन सूत्रेण केचिदर्थाः साक्षात्सूचिताः मुख्यतयोपात्तास्तथाऽपरे | सूचिता अर्थापत्याक्षिप्ताः । साक्षादनुपादानेऽपि दध्यानयन चोदनया तदाधारानयनचोदनावदिति । एवं च कृत्वा चतुर्दशपूर्वविदः परस्परं पदस्थानपतिता भवन्ति । तथा चोक्तम्- " अक्खरलंभेण समा, ऊणहिया होंति मति - विसेसेहिं । ते विय मईविसेसा, सुयनाणभिंतरे जाण ॥ १ ॥ " तत्र ये साक्षादुपात्तास्तान् प्रति सर्वेऽपि तुल्याः, ये | पुनः सूचितास्तदपेक्षया कश्चिदनन्तभागाधिकमर्थं वेत्यपरोऽसंख्येयभागाधिकमन्यः संख्येयभागाधिकं तथाऽन्यः | संख्येया संख्येयानन्तगुणमिति । ते च सर्वेऽपि युक्ता युक्त्तयुपपन्नाः सूत्रोपात्ता एव वेदितव्याः । तथा चोक्तम्- 'ते वि य मईविसेसा' इत्यादि, ननु किं सूत्रोपान्तेभ्योऽन्येऽपि केचनार्थाः सन्ति येन तदपेक्षया चतुर्दशपूर्वविदां षट्स्थान ational For Private & Personal Use Only रत्नाकरः । ॥ ८ ॥ w.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy