SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ भविष्यामीति दर्शयति–'अनगारों'अगा वृक्षास्तनिष्पन्नमगारम्, तन्न विद्यते यस्त्यनगारस्त्यक्तगृहवास इत्यर्थः। तथा न विद्यते किमप्यस्येत्यकिञ्चनो निःपरिग्रह इत्यर्थः । तथाऽपुत्रः स्वजनबन्धुरहितो निर्मम इत्यर्थः । एवमपशुद्धिपदचतुष्पदादिरहितः। यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतत्पतिज्ञो भवामीति दर्शयति-यथा सर्व भदन्तादत्तादानं प्रत्याख्यामि दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामीत्यर्थः। तदनेन विशेषणकदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक् श्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिश्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव खयमदत्तं गृह्णीयान्नवापरेण ग्राहयेन्नाप्यपरं गृह्णन्तं समनुजानीयात् । यैर्वा साधुभिः सह सम्यक् प्रव्रजितस्तिष्ठति तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य न गृहणीयादिति दर्शयति तद्यथा-'छत्रक' इति, छद अपवारणे छायतीति छत्रं वर्षाकल्पादि, यदि वा कारणिकः कचित्कौङ्कणदेशादावतिवृष्टिसंभवाच्छन्त्रकमपिगृहणीयाद्यावचमच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य वाप्रमृज्य च नावगृह्णीयात्सकृत्प्रगृह्णीयादनेकशः। तेषां सम्बन्धि यथा गृणीयात्तथा दर्शयति–पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरेणादिना सकृदनेकशो वा गृहणीयात् । इत्याचाराङ्गाद्वितीयश्रुतस्कन्धसप्तमाध्ययनप्रथमोद्देशके २३७ प्रती २२७ पत्रे ॥१४॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालशालातिशालिशीलश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुचिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्रीआचारङ्गकियद्विचारसमुच्चयनामा प्रथमस्तरङ्गः ॥ १॥ इति श्रीविचाररत्नाकरे प्रथमस्तरंगः सम्पूर्णः । JainEducation For Private & Personal Use Only 1! ainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy