SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ आजन्माऽपि रजःप्रसङ्गरहिते रत्नप्रदीपोज्ज्वले, विश्वामोदिसुवासने श्रुतधने चातुर्यचन्द्रोदये । यञ्चेतःसदने निरस्तमदने स्वाध्यायदौवारिके, श्रीधर्मः क्षितिपः क्षमादिगृहिणीवर्गः सह क्रीडति ॥ २३ ॥ यत्कीया॑द्भुतमेतदद्य विहितं शुभ्रं सृजन्त्या जगत्, कृष्णश्वेतरुचिः श्रितः श्रियमियं प्रोवाच शङ्काकुला । कस्त्वं त्वद्दयितो न सोऽसिततनुनूनं स एव प्रिये, दम्पत्योरितरेतरं सशपथं तृप्तः कलिनेकशः ॥ २४ ॥ कंठे सारसरस्वती हृदि कृपानीतिक्षमाशुद्धयो, वक्त्राब्जे मुखवस्त्रिका सुभगता काये करे पुस्तिका । भूपालप्रणतिः पदे दिशि दिशि श्लाघाभितः सम्पदः, इत्थं भूरिवधूवृतोऽपि विदितो यो ब्रह्मचारीश्वरः ।। २५ ॥ लक्ष्मीमीश्वरतां च यः परिचितामुत्सृज्य बाल्यादपि, श्रामण्यं श्रितवानगण्यगुणभृत्पुण्यप्रवीणाशयः। तत्रौज्झनपरान्तिकं तदितरा त्वक्षणापि नाङ्गीकृता-ऽप्येतत्पादपवित्रगेहिसदने तिष्ठत्यहो रागिता ॥ २६ ॥ शीलं यस्य परे स्तुवन्ति प्रतिनोऽप्यन्तर्मनोऽभीष्टदः, कालेस्मिन्नपि जाग्रदुअमहिमा यद्गोत्रमन्त्रोद्भुतः। निःशेषागमवारिधेरपि सुखं दत्तावकाशे हृदि, स्थातुं न प्रभुरङ्गजश्चिरमिदं यस्य त्रयं चित्रकृत् ।। २७ ॥ एतेषामादेशात्समुच्चितःप्रवचनादयं ग्रन्थः । श्रीहरिविजयगणपतिशिशुपाठककीर्तिविजयेन ॥२८॥ संशोधितश्च सुविहितचूडामणिरामविजयबुधशिष्यैः । श्रीदेवविजयवाचकवृषभैः कोविदकुलोत्सैः ।। २६ ॥ किं चात्र लेखनशोधनविषये यलं. चकार मच्छिष्यः । विनयविजयाभिधानः, प्रथमादर्श च स लिलेख ॥ ३०॥ यद्यपि मया तु किञ्चिन्न लिखितमत्रास्ति नूतनं तदपि । कृतिभिः शोध्यं धर्मप्रणयादविचारितं यदिह ॥ ३१ ॥ Jain Education International For Private & Personel Use Only A aw.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy